यथा तथा प्रत्येकमेकैकस्मिन्निक्षिप्तपदः। मकरन्दलोभादित्यर्थः । भ्रमर एषां कुड्मलानां संख्यां गणनां चकारेव ।।
खेदानुविद्धानखक्षताङ्के भू[१]यिष्ठसंदृष्टशिखं कपोले।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥४८॥
स्वेदेति ॥ स्वेदानुविद्धमार्द्रं नूतनं नखक्षतमङ्को यस्य तस्मिन्कामिनीनां क पोले भूयिष्ठमत्यर्थं संदष्टशिखं विश्लिष्टकेसरम् । अतएव कर्णाच्युतमपि । शिरीष पुष्पं सहसा न पपात ॥
यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौ[२]तान्मलयोद्भवस्य ।
शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः॥४९॥
यन्त्रेति ॥ ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिरैर्यन्त्रप्रवा हेर्यन्त्रसंचारितसलिलपूरैः परीतान्व्याप्तान्मलयोद्भवस्य रसेन चन्दनोदकेन धौ तान्क्षालिताञ्छिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वातपं निन्युरातप परिहारं चक्रुः॥
स्नानार्द्रमुक्तेष्व[३]नुधूपवासं विन्यस्तसायंतनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥५०॥
स्नानेति ॥ वसन्तस्यात्मसहकारिणोऽत्ययेनातिक्रमेण मन्दवीर्योऽतिदुर्बलः कामः स्नानार्द्राश्च ते मुक्ताश्च । धूपसंचारणार्थमित्यर्थः । तेषु । अनुधूपवासं धूप- वासानन्तरं विन्यस्ताः सायंतनमल्लिका येषु तेषु । अङ्गनानां केशेषु वलं लेभे। तै रुद्दीपित इत्यर्थः॥
आपिञ्जरेति ॥ बद्धरजःकणत्वाव्याप्तरजःकणत्वादापिञ्जरोदारा द्राघीय स्यर्जुनस्य ककुभवृक्षस्य ॥ “ इन्द्रद्रुः ककुभोऽर्जुनः" इत्यमरः ॥ मञ्जरी । देहं दग्ध्वापि रोषाद्गिरिशेन गिरिरस्त्यस्य निवासत्वेन गिरिशस्तेन ॥ लोमादित्वाच्छ प्रत्ययः । गिरौ शेत इति विग्रहे तु “गिरौ शेतेर्डः" इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः स्यात् । तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम् । खण्डीकृता मनोभवस्य ज्या मौर्वीव । शुशुभे ॥
मनोज्ञगन्धं सहकारभङ्गं पु[६]राणशीध्रुं नवपाटलं च ।
संबध्ननता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥५२॥