पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३३० )
रघुवंशे

 वृक्षेशया इति ।। यष्टिरेव निवासः स्थानं तस्य भङ्गात् । वृक्षे शेरत इति वृक्षेशयाः ॥ “ अधिकरणे शेतेः" इत्यच्प्रत्ययः । “शयवासवासिष्वकालात् इत्यलुक्सप्तम्याः ॥ मृदङ्गशब्दानामपगमादभावादलास्या नृत्यशून्याः । दवोऽरण्यवह्निः|| " दवदावौ वनारण्यवह्नी" इत्यमरः ॥ तस्योल्काभिः स्फुलिङ्गैर्हतेभ्यः शेषाणि बर्हाणि येषां ते क्रीडामयूरा वनबर्हिणत्वं वनमयूरत्वं प्राप्ताः ॥

  सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्च[१]रणान्सरागान् ।
  सद्यो हतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे[२]।।१५॥

 सोपानेति ॥ किञ्च । येषु सोपानमार्गेषु रामा रमण्यः सरागाल्लाक्षारसार्दांश्चरणान्निक्षिप्तवत्यः| तेषु मे मम मार्गेषु सद्यो हतन्यङ्कुभिर्मारितमृगैर्व्याघ्रैरस्रदिग्धं रुधिरलिप्तं पदं निधीयते ॥

  चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः ।
  नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६ ॥

 चित्रेति ॥ पद्मवनमवतीर्णाः प्रविष्टाः। तथा लिखिता इत्यर्थः । करेणुभिः करिणीभिः। चित्रगताभिरेव ॥ “करेणुरिभ्यां स्त्री नेभे" इत्यमरः ॥ दत्तमृणालभङ्गाश्चित्रद्विपा आलेख्यमातङ्गाः। नखा एवाङ्कुशाः॥ तेषामाघातैर्विभिन्नकुम्भाः सन्तः संरब्धसिंहप्रहृतं कुपितसिंहप्रहारं वहन्ति ॥

  स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
  स्तनोत्तरीयाणि भवन्ति सङ्गान्नि[३]र्मोकपट्टाः फणिभिर्विमुक्ताः॥१७॥

 स्तम्भेष्विति ॥ उत्क्रान्तवर्णक्रमा विशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेषु योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निर्मोकाः कञ्चुका एव पट्टाः ॥ "समौ कञ्चुकनिर्मोकौ" इत्यमरः ॥ सङ्गात्सक्तत्वात्स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ॥

  कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
  त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः ॥१८॥

 कालेति ॥ कालान्तरेण कालभेदवशेन श्यामसुधेषु मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं, येषां तादृशा अपि । ततः पूर्वं ये मूर्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः। “पादा

रश्म्यङ्घ्रितुर्यांशाः" इत्यमरः॥ न मूर्छन्ति । न प्रतिफलन्तीत्यर्थः ।।


  1. चरणाङ्गरागान्
  2. अद्य
  3. निर्मोकपट्यः