विभूत्या । वस्वौकसारालका पुरी ॥ "अलका पुरी वस्वौकसारा स्यात्" इति कोशः॥ अथवा मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी । “ वस्वौकसारा शक्रस्य" इति विष्णुपुराणात् ॥ तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंश्ये सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ॥
विशीर्णेति ॥ तल्पान्यट्टालिकाः ॥ “ तल्पं शय्याट्टदारेषु" इत्यमरः ॥ अट्टानि गृहभेदाः ॥ “अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे" इति विश्वः।। विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः ॥ विशीर्णकल्पाट्टशतो निवेशः" इति वा पाठः। अट्टा क्षौमाः। “स्यादट्टः क्षौममस्त्रियाम्" । इत्यमरः ॥ ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यट्टशतानि यस्य स तथोक्तः॥ पर्यस्तसालः स्रस्तप्राकारः ॥ “प्राकारो वरणः सालः" इत्यमरः॥प्रभुणा स्वामिना विनैवम्भूतो मे निवेशो निवेशनम् । अस्तनिमग्नसूर्यमस्ताद्रिलीनार्कमुग्रानिलेन भिन्नमेघं दिनान्तं विडम्बयत्यनुकरोति ॥
निशासु भास्वत्कलनूपुराणां यः सञ्चरोऽभूदभिसारिकाणाम् ।
न[३]दन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथःशिवाभिः॥१२॥
निशास्विति॥निशासु भास्वन्ति दीप्तिमन्ति कलान्यव्यक्तमधुराणि नूपुराणि यासां तासामभिसारिकाणाम् ॥ “कान्तार्थिनी तु या याति सङ्केतं साभिसारिका" इत्यमरः ॥ यो राजपथः । सञ्चरत्यनेनेति सञ्चरः । सञ्चारसाधनमभूत् ॥ “गोचरसञ्चर"-- इत्यादिना घप्रत्ययान्तो निपातः ॥ नदत्सु मुखेषु या उल्कास्ताभिर्विचितामिषाभिरन्विष्टमांसाभिः शिवाभिः क्रोष्ट्रीभिः स राजपथो वाह्यते गम्यते ।। वहेरन्यो वहिधातुरस्तीत्युपदेशः ॥
आस्फालितमिति ॥ यदम्भः प्रमदाकराग्रैरास्फालितं ताडितं सत् । जलक्रीडास्विति शेषः । मृदङ्गानां यो धीरध्वनिस्तमन्वगच्छदन्वकरोत् । तद्दीर्घिकाणामम्भ इदानीं वन्यैर्महिषैः । कर्तृभिः । शृङ्गैर्विषाणैराहतं सत्क्रोशति । न तु मृदङ्गध्वनिमनुकरोतीत्यर्थः॥
वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः।
प्राप्ता दवोल्काहतशेषबर्हाः क्रीडामयूरा वनबर्हिणत्वम् ।।१४॥