भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ॥ ३७॥
भूय इति ॥ स शत्रुघ्नो मैथिलीतनययोः कुशलवयोरुद्गीतेन निःस्पन्दमृगं गीतप्रियतया निश्चलहरिणं वाल्मीकेराश्रमम् । भूयः पुनरपि तपोव्ययः संविधानकरणार्थं तपोहानिर्मा भूदिति हेतोः । अत्यगात् । अतिक्रम्य गत इत्यर्थः॥
वशीति ॥ वशी स लवणस्य वधाद्धेतोः पौरैः पौरजनैरत्यन्तं गौरवं यस्मिन्कर्मणि तत्तथेक्षितः सन् । रथ्यासंस्कारैस्तोरणादिभिः शोभते या तामयोध्यां विवेश च ॥
स ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।
रामं सीतापरित्यागादसामान्यपतिं भुवः ॥ ३९ ॥
स इति ॥ स शत्रुघ्नः सभामध्ये सभासद्भिः सभ्यैरुपस्थितं सेवितं सीतापरित्यागाद्भुवोऽसामान्यपतिमसाधारणपतिं रामं ददर्श ॥
तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः।
कालनेमिवधात्पीतस्तुराषाडिव शार्ङ्गिणम् ॥ ४० ॥
तमिति ॥ अग्रजो रामो लवणस्यान्तकं हन्तारं प्रणतं तं शत्रुघ्नम् । कालनेमिर्नाम राक्षसः । तस्य वधात्प्रीतः । तुरां वेगं सहत इति तुराषाडिन्द्रः ॥“ छन्दसि सहः" इति ण्विः । यद्वा सहतेर्णिचि कृते साहयतेः क्विप् । “ अन्येषामपि दृश्यते" इति पूर्वपदस्य दीर्घः । “सहेः साडः सः" इति षत्वम् ॥ शार्ङ्गिणमुपेन्द्रमिव अभ्यनन्दत् ॥
स इति ॥ स शत्रुघ्नः पृष्टः सन् । सर्वतो वार्तं कुशलं राज्ञे रामायाख्यदाख्यातवान्|| चक्षिङो लुङ् । “चक्षिङः ख्याञ्" इति ख्याञादेशः । “अस्यतिवक्ति"- इत्यङ्| “ आतो लोप इटि च" इत्याकारलोपः । ख्यातेर्वा लुङ् ॥ सन्ततिं कुशलवोत्पत्तिं नाख्यत् ॥ कुतः । कालेऽवसरे प्रत्यर्पयिष्यत आद्यस्य कवेर्वाल्मीके: शासनात् ॥
१ . २ . ३ , ४ .
५