स[१] तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः॥ ३२॥
स इति ॥ स कविर्वाल्मीकिः कुशैर्दर्भैर्लवैर्गोपुच्छलोमभिः ॥ "लवो लवणकिञ्जल्कपक्ष्मगोपुच्छलोमसु" इति वैजयन्ती । उन्मृष्टो गर्भक्लेदो गर्भोपद्रवो ययोस्तौ कुशलवोन्मृष्टगर्भक्लेदौ तौ मैथिलेयौ तेषां कुशानां च लवानां चाख्यया नामतो नाम्ना यथासङ्ख्यं कुशलवावेव चकार किल । कुशोन्मृष्टः कुशः। लवोन्मृष्टो लवः॥
साङ्गं च वेदमध्याप्य किञ्चिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयामास क[२]विप्रथमपद्धतिम् ॥ ३३ ॥
साङ्गमिति ॥ किञ्चिदुत्क्रान्तशैशवावतिक्रान्तबाल्यौ तौ साङ्गं च वेदमध्याप्य कवीनां प्रथमपद्धतिम् । कविताबीजमित्यर्थः । स्वकृतिं काव्यं रामायणाख्यं गापयमास ॥ गापयतेर्लिट् । शब्दकर्मत्वात् “गतिबुद्धि-" इत्यादिना द्विकर्मकत्वम् ।।
रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः ।
तद्वियोगव्यथां किञ्चिच्छिथिलीचक्रतुः सुतौ ॥ ३४ ॥
रामस्येति ॥ तो सुतौ रामस्य वृत्तं मातुरग्रतो मधुरं गायन्तौ तद्वियोगव्यथां रामविरहवेदनां किञ्चिच्छिथिलीचक्रतुः॥
इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥ ३५॥
इतरेऽपीति ॥ रघोर्वंश्या वंशे भवाः ।त्रैतेत्यग्नयस्त्रेताग्नयः । तेषां तेज इव तेजो येषां ते त्रेताग्नितेजसः । इतरे रामादन्ये त्रयो भरतादयोऽपि तद्योगात्तेषां योगाद्भरतादिसंबन्धात्पतिवत्नीषु भर्तृमतीषु जीवत्पतिकासु । ख्यातिमतीष्वित्यर्थः। “पतिवत्नी सभर्तृका" इत्यमरः ॥ “अन्तर्वत्पतिवतोर्नुक्" इति ङीप्प्रत्ययो नुगागमश्च ॥ पत्नीषु द्विसूनव आसन् । द्वौ द्वौ सूनू येषां ते द्विसूनव इति विग्रहः॥ क्वचित्सङ्ख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत् ॥
शत्रुघातिनि शत्रुघ्नः सुबाहो च बहुश्रुते ।
मथुराविदिशे सून्वोर्नि[३]र्दधे पूर्वजोत्सुकः ॥ ३६॥
शत्रुघातिनीति ॥ पूर्वजोत्सुको ज्येष्ठप्रियः शत्रुघ्नो बहुश्रुते शत्रुघातिनि सुबाहौ च तन्नामकयोः सून्वोर्मथुरा च विदिशा च ते नगर्यौ निदधे । निधाय गत इत्यर्थः॥
१ . २ . ३ .
४०