अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुःस्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ ३॥
अवेक्ष्येति ॥ ते मुनयो राममवेक्ष्य । रक्षितारमिति शेषः । तस्मिल्लवणे स्वतेजसा शापरूपेण न प्रजह्रुः । तथाहि । त्रायत इति त्राणं रक्षकम् ॥ कर्तरि ल्युट् ॥ तदभावे शाप एवास्त्रं येषां ते शापास्त्राः सन्तस्तपसो व्ययं कुर्वन्ति । शापदानात्तपसो व्यय इति प्रसिद्धः॥
प्रतीति ॥ काकुत्स्थो रामस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां लवणवधरूपां प्रतिशुश्राव प्रतिजज्ञे ॥ तथाहि । भुवि शार्ङ्गिणो विष्णोः प्रवृत्ती रामरूपेणावतरणं धर्मसंरक्षणमेवार्थः प्रयोजनं यस्याः सा तथैव ॥
ते रामाय वधोपायमाचख्युर्विबुधद्विषः।
दुर्जयो लवणःशूली विशूलः प्रार्थ्यतामिति॥५॥
त इति ॥ ते मुनयो रामाय विबुधद्विषः सुरारेर्लवणस्य वधोपायमाचख्युः॥ लुनातीति लवणः ॥ नन्द्यादित्वाल्ल्युः । तत्रैव निपातनाण्णत्वम् ॥ लवणः शूली शूलवान्दुर्जयोऽक्षयः । किंतु विशूलः शूलरहितः पार्थ्यतामभिगम्यताम् ॥ "याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः" इति केशवः ।।
आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥ ६ ॥
आदिदेशेति ॥ अथ तेषां मुनीनां क्षेमाय क्षेमकरणाय राघवो रामः शत्रुघ्नमादिदेश ।। अत्रोत्प्रेक्ष्यते-अस्य शत्रुघ्नस्य नामारिनिग्रहाच्छत्रुहननाद्धेतोः। यथाभूतोऽर्थो यस्य तद्यथार्थं करिष्यन्निव । शत्रून्हन्तीति शत्रुघ्नः ॥ “अमनुष्यकर्तृके च" इति चकारात्कृतघ्नशत्रुघ्नादयः सिद्धा इति दुर्गसिंहः । पाणिनीयेऽपि वहुलग्रहणाद्यथेष्टसिद्धिः “कृत्यल्युटो बहुलम्" इति ॥ रामस्य स्वयमप्रयाणे हेतुमाह-
यः कश्चन रघूणां हि परमेकः परंतपः।
अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः॥७॥
य इति॥हि यस्मात् । पराञ्छत्रूंस्तापयतीति परंतपः॥"द्विषत्परयोस्तापेः"