पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३०६ )
रघुवंशे

  सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां
   तस्या एव प्रतिकृतिसखो यत्क्रतूना[१]जहार ।
  वृत्तान्तेन श्र[२]वणविषयप्रापिणा तेन भर्तुः
   सा दु[३]र्वारं कथमपि परित्यागदुःखं विषेहे ॥ ८७॥

 सीतामिति ॥ दशमुखरिपू रामः सीतां हित्वा त्यक्त्वान्यां स्त्रियं नोपयेमे न परिणीतवानिति यत् ॥ " उपाद्यमः स्वकरणे" इत्यात्मनेपदम् ॥ किंच । तस्याः सीताया एव प्रतिकृतेः प्रतिमाया हिरण्मय्याः सखा प्रतिकृतिसखः सन्क्रतूनाजहाराहृतवानिति यत्तेन श्रवणविषयप्रापिणा श्रोत्रदेशगामिना भर्तुर्वृत्तान्तेन वार्तया हेतुना सा सीता दुर्वारं दुर्निरोधं परित्यागेन यद्दु:खं तत्कथमपि विषेहे विसोढवती।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
सीतापरित्यागो नाम चतुर्दशः सर्गः।


पञ्चदशः सर्गः।


    अरण्यकं गृहस्थानं श्वशुरौ यद्रजःकणाः ( ? )।
    स्वयमौद्वाहिकं गेहं तस्मै रामाय ते नमः (?) ॥

  कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
  बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ १॥

 कृतेति ।। कृतसीतापरित्यागः स पृथिवीपालो रामो रत्नाकर एव मेखला यस्यास्ताम् । सार्णवामित्यर्थः । केवलाम् । एकामित्यर्थः । पृथिवीमेव बुभुजे भुक्तवान् । नतु पार्थिवीमित्यर्थः ॥ सापि रत्नखचितमेखला । पृथिव्याः कान्तासमाधिर्व्यज्यते ॥ रामस्य स्त्र्यन्तरपरिग्रहो नास्तीति श्लोकाभिप्रायः॥

  लवणेन विलुप्तेज्यास्तामिस्रेण तम[४]भ्ययुः ।
  मुनयो यमुनाभाजः शरण्यं शरणार्थिनः॥२॥

 लवणेनेति ॥ लवणेन लवणाख्येन तामिस्रेण तमिस्राचारिणा। रक्षसेत्यर्थः। विलुप्तेज्या लुप्तयागक्रिया अतएव शरणार्थिनो रक्षणार्थितो यमुनाभाजो यमुनातीरवासिनो मुनयः शरण्यं शरणार्हं रक्षणसमर्थ तं रामं रक्षितारमभ्ययुः प्राप्ताः ॥यातेर्लङ् ॥



  1. आजुहाव.
  2. श्रवणविषयं प्रापिणा.
  3. दुर्वारव्यथम्.
  4. अन्वयुः.