सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २८६ )
रघुवंशे

  सानुप्लवः प्रभुरपि क्षणदाचराणां
   भेजे र[]थान्दशरथप्प्रभवानुशिष्टः ।
  मायाविकल्परचितैरपि ये[]तदीयै-
   र्न स्यन्दनैस्तुलितकृत्रिमभ[]क्तिशोभाः॥७५ ॥

{{gapसानुम्लव इति ॥}} सानुप्लवः सानुगः ॥ "अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः" इति यादवः ॥क्षणदाचराणां प्रभुर्विभीषणोऽपि । प्रभवत्यस्मादिति प्रभवो जनकः । दशरथः प्रभवो यस्य स दशरथप्रभवो रामः। तेनानुशिष्ट आज्ञप्तःसरथान्भेजे ॥ तानेव विशिनष्टि-ये रथा मायाविकल्परचितैः संकल्पविशेषनिमितैरपि तदीयविभीषणीयैः स्यन्दनै रथस्तुलितकृत्रिमभक्तिशोभास्तुलिता समीकृता कृत्रिमा क्रियया निवृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति । तेऽपि तत्साम्यं न लभन्त इत्यर्थः ॥ कृत्रिमेत्यत्र “ड्वितः क्रिः" इति क्रिप्रत्ययः । कत्रेमम्नित्यम्” इति ममागमः ॥

  भूयस्ततो रघुपतिर्विलसत्पताक-
   मध्यास्त कामगति सावरजो विमानम्।
  दोषातनं बुधबृहस्पतियोगदृश्य-
   स्ता[]रापतिस्तरलविद्युदिवा[]भ्रवृन्दम् ॥ ७६ ॥

भूय इति ॥ ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन्। विलसत्पताकं कामेनेच्छानुसारेण गतिर्यस्य तद्विमानं भूयः पुनरपि । बुधबृहस्पतिभ्यां योगेन दृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम् ॥ “सायंचिरंप्राह्णे-" इत्यादिना दोषाशब्दादव्ययाट्ट्युप्रत्ययः ॥ तरलविद्युच्चञ्चलतडिदभ्रवृन्दमिव । अध्यास्ताधिष्ठितवान् ॥

  तत्रेश्वरेण जगतां प्रलयादिवोर्वी
   वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।
  रामेण मैथिलसुतां दशकण्ठकृच्छा-
   प्र[]त्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ ७७ ।।

 तत्रेति ॥ तत्र विमाने । जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव । वर्षात्ययेन शरदागमेनाभ्रघनान्मेघसंघातादिन्दो रुचं चन्द्रिकामिव । रामेण दशकण्ठ एव

कृच्छं संकटं तस्मात्प्रत्युद्धृतां धृतिमतीं संतोषवतीं मैथिलसुतां सीतां भरतो ववन्दे ।।


  1. रथम्.
  2. यः.
  3. भक्तिशोभः.
  4. ताराधिपः.
  5. अभ्रकूटम्.
  6. अभ्युद्धृताम्.