पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २८१ )
त्रयोदशः सर्गः ।

  क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः।
  अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ ५५ ॥
  क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
  अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभः प्रदेशा ॥५६॥
  कचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
  पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरंगैः॥५७॥

 हे अनवद्याङ्गि, यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति । त्वं पश्य । केव । क्वचित्पदेशे प्रभया लिम्पन्ति संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा । सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव । विभाति ॥ अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा । सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव । विभातीति सर्वत्र संबन्धः ॥ क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां तेषां खगानां राजहंसानां पङ्क्तिरिव ॥ "राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः" इत्यमरः ॥ अन्यत्र कालागुरुणा दत्तपत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव ॥ क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव ॥ अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव ॥ क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव । विभाति ॥ शेषो व्याख्यातः॥ कलापकम् ॥

  समुद्रपल्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् ।
  तत्त्वावबोधेन विनापि भूयस्तं[१]नुत्यजां नास्ति शरीरबन्धः॥५८॥

 समुद्रेति ॥ अत्र समुद्रपत्न्योर्गङ्गायमुनयोर्जलसंनिपाते संगमेऽभिषेकात्स्नानात्पूतात्मनां तनुत्यजां शुद्धात्मनां पुंसां तत्त्वावबोधेन तत्त्वज्ञानेन विनापि प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल ॥ अन्यत्र ज्ञानादेव मुक्तिः । अत्र तु स्नानादेव मुक्तिरित्यर्थः।।

  पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलि[२]मणिं विहाय ।
  जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति॥५९॥

पुरमिति ॥  निषादाधिपतेर्गुहस्य तत्पुरमिदम् । यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः "हे कैकेयि, तव कामा मनोरथाः

फलिताः : सफला जाताः" इत्यरुदत् ॥ “रुदिरश्रुविमोचने" इति धातोर्लुङ् ।


  1. शरीरिणाम्.
  2. मौलिमणीन्.