पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २८२ )
रघुवंशे

  पयोधरैः पुण्यजनाङ्गनाना नि[१]र्विष्टहेमाम्बुजरेणु यस्याः।
  ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥६०॥

 पयोधरैरिति ॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निविष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत् । तत्र ताः क्रीडन्तीति व्यज्यते । ब्रह्मण इदं ब्राह्मम् ॥ "नस्तद्धिते” इति टिलोपः ॥ ब्राह्मं सरो मानसाख्यं यस्याः सरय्वाः । बुद्धमहत्तत्वस्याव्यक्तं प्रधानमिव कारणम् । आप्तस्य वाच आप्तवाचो वेदाः । यद्वा बहुव्रीहिणा मुनयः । उदाहरन्ति प्रचक्षते ॥

  जलानि या तीरनिखातयू[२]पा वहत्ययोध्यामनु राजधानीम् ।
  तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥६१॥

 जलानीति ॥ यूपः संस्कृतः पशुबन्धनार्हो दारुविशेषः । तीरनिखातयूपा या सरयस्तुरंगमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णरवरूढरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः ॥ तद्राजत्वादणो लुक् ॥ पुण्यतरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानी नगरीमनु समीपे । तया लक्षितयेत्यर्थः ॥ अनुशब्दस्य "लक्षणेत्थंभूत-" इत्यादिना कर्मप्रवचनीयत्वात्तद्योगे द्वितीया ॥ वहति प्रापयति।।

  यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
  सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम्॥६२॥

 यामिति ॥ यां सरयूं मे मानसम् । कर्तृ । सैकतं पुलिनम् । तदेवोत्सङ्गः । तत्र यत्सुखं तत्रोचितानां प्राज्यैः प्रभूतैः पयोभिरम्बुभिः क्षीरैश्च ॥ “पयः क्षीरं पयोऽम्बु च" इत्यमरः ॥ परिवर्धितानां पुष्टानामुत्तरकोसलानामुत्तरकोसलेश्वराणां सामान्यधात्री साधारणमातरमिव । संभावयति ॥ “धात्री जनन्यामलकी वसुमत्युपमातृषु" इति विश्वः॥

  सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूवि[३]युक्ता।
  दूरे व[४]सन्तं शिशिरानिलैर्मां तरंगहस्तैरुपगूहतीव ॥ ६३॥

 सेयमिति ॥ मदीया जननी कौसल्येव मान्येन पूज्येन तेन राज्ञा दशरथेन वियुक्ता सेयं सरयूर्दूरे वसन्तम् । प्रोष्यागच्छन्तमित्यर्थः । मां पुत्रभूतं शिशिरानिलस्तरंगैरेव हस्तैरुपगूहतीवालिङ्गतीव ॥

  विरक्तसंध्याकपिशं पुरस्ताद्य[५]तो रजः पार्थिवमुज्जिहीते।
  शङ्के ह[६]नूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥६४॥


  1. निर्घुष्ट.
  2. यूपैः.
  3. विमुक्ता.
  4. अपि सन्तम्.
  5. यस्मात्; एतत्; यथा
  6. हनूमान्कथित.