राक्षसीं वैरूप्यस्य पौनरुक्त्यं द्वैगुण्यं लक्षणया । तेनायोजयद्योजितवान् । स्वभावत एव विकृतां तां कर्णादिच्छेदेन पुनरतिविकृतामकरोदित्यर्थः॥
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे ॥४१॥
सेति ॥ सा वक्रनखं धारयतीति वक्रनखधारिणी । तया वेणुवत्कर्कशपर्वया। अतएवाङ्कुशस्याकार इवाकारो यस्याः सा तया । अङ्गुल्या तौ राघवावम्बरे व्योम्नि स्थिता ॥ “ अम्बरं व्योम्नि वाससि" इत्यमरः ॥ अतर्जयदभर्त्सयत् ॥ " तर्ज भर्त्सने" इति धातोश्चौरादिकादनुदात्तेत्त्वादात्मनेपदेन भाव्यम् । तथापि चक्षिङोङित्करणाज्ज्ञापकानुदात्तेत्त्वनिमित्तस्यानियत्वात्परस्मैपदमूह्यमित्युक्तमाख्यातचन्द्रिकायाम् ॥ तर्जयते भर्त्स्ययते । तर्जयतीत्यपि च दृश्यते कविष्विति ॥
प्राप्य चाशु जनस्थानं खरादिभ्यस्त[१]थाविधम् ।
रामोपक्रममाचख्यौ रक्षःपरिभवं नवम् ॥४२॥
प्राप्येति ॥ साशु जनस्थानं प्राप्य खरादिभ्यो राक्षसेभ्यस्तथाविधं स्वाङ्ग- च्छेदात्मकम् । उपक्रम्यत इत्युपक्रमः ॥ कर्मणि घञ्प्रययः॥ रामस्य कर्तुरुप- क्रमः । रामोपक्रमम् । रामेणादावुपक्रान्तमित्यर्थः ॥ उपज्ञोपक्रमं तदाद्याचि- ख्यासायाम्” इति क्लीबत्वम् ॥ तन्नवं रक्षसां कर्मभूतानां परिभवमाचख्यौ च ॥
मुखावयवलूनां तां नैर्ऋता यत्पुरो दधुः।
रामाभियायिनां तेषां तदेवा[२]भूदमङ्गलम् ॥४३॥
मुखेति ॥ नैर्ऋता राक्षसाः॥“नैर्ऋतो यातुरक्षसी" इत्यमरः ॥ मुखावयवेषु कर्णादिषु लूनां छिन्नां तां पुरो दधुरग्रे चक्रुरिति यत्तदेव रामाभियायिनां राम- मभिद्रवतां तेषाममङ्गलमभूत् ॥
उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥४४॥
उदिति ॥ उदायुधानुद्यतायुधानापतत आगच्छतो दृप्तांस्तान्खरादीन्प्रेक्ष्य राघवश्चापे विजयस्याशंसामाशां लक्ष्मणे सीतां च निदधे । सीतारक्षणे लक्ष्मणं नियुज्य स्वयं युद्धाय संनद्ध इति भावः ॥
एको दाशरथिः का[३]मं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥ ४५॥