ज्येष्ठेति ॥ पूर्व ज्येष्ठाभिगमनात्तेन लक्ष्मणेनाप्यनभिनन्दिता नाङ्गीकृता भूयो रामाश्रया सा राक्षसी । उभे कूले भजतीत्युभयकूलभाक् । नदीवाभूत् । सा हि यातायाताभ्यां पर्यायेण कूलद्वयगामिनी नदीसदृश्यभूदित्यर्थः ॥
संरम्भं मैथिलीहासः क्ष[१]णसौम्यां निनाय ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥ ३६ ॥
संरम्भमिति ॥ मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीम् । निवातेन स्तिमितां निश्चलामुदधेर्वेलामम्बुविकृतिम् । अम्बुपूरमित्यर्थः ॥" अब्ध्यम्बुविकृतौ वेला" इत्यमरः ॥ चन्द्रोदय इव । संरम्भं संक्षोभं निनाय ॥
फलमिति ॥ श्लोकद्वयेनान्वयः ॥ अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि । मां पश्य । त्वया । कर्त्र्या । कृतमुपहासरूपम् । करणम् । व्याघ्र्यां विषये मृग्याः। कर्त्र्याः । परिभव इत्यवेहि ॥
इतीति । भयाद्भर्तुरङके निविशतीमालिङ्गन्तीं मैथिलीमित्युक्त्वा शूर्पणखा ना- म्नः सदृशम् । शूर्पाकारनखयुक्तमित्यर्थः । रूपमाकारं प्रत्यपद्यत स्वीचकार । अदर्शयदित्यर्थः॥
लक्ष्मण इति ॥ लक्ष्मणः प्रथमं कोकिलावन्मनञुवादिनीं पश्चाच्छिवावद्धोर- स्वनां तां शूर्पणखां श्रुत्वा । तस्याः स्वनं श्रुत्वेत्यर्थः ॥ सुस्वनः शङ्खः श्रूयत इ. तिवत्प्रयोगः ॥ विकृता मायाविनीति बुबुधे बुद्धवान् ॥ कर्तरि लिट् ॥
पर्णशालामिति ॥ अथ स लक्ष्मणो विकृष्टासिः कोशोदृतखङ्गः सन्क्षिप्रं
पर्णशालां प्रविश्य । भीषयतीति भीषणाम् ॥ नन्द्यादित्वाल्ल्युट् कर्तरि ॥ तां