पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २२५ )
एकादशः सर्गः ।

व्यस्तो विभक्तः पृथिवीपतेर्दशरथस्य प्रसवः संतानः । चतुर्धाङ्गवान्मूर्तिमान्धर्मार्थकाममोक्षाणामवतार इव बभौ ॥

  गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
  तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥ ८५ ॥

 गुणैरिति ॥ गुरुवत्सलाः पितृभक्तास्ते कुमारा गुणैर्विनयादिभिर्गुरुं पितरम् । चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम् ॥ “तद्धितार्थ-” इत्यादिनोत्तरपदसमासः ॥ तं दशरथमेव महार्णवाश्चत्वारो रत्नैरिव । आराधयामासुरानन्दयामासुः ॥

  सुरगज इव दन्तैर्भग्नदैत्यासिधारै-
   र्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
  हरिरिव युगदीर्घैर्दोभिरंशैस्तदीयैः
   पतिरवनिपतीनां तैश्च[१]काशे चतुर्भिः ॥ ८६ ॥

 सुरगज इति ॥ भग्ना दैत्यानामसिधारा यैस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव । पणबन्धेन फलसिद्ध्या व्यक्तयोगैरनुमितप्रयोगैरुपायैश्चतुर्भिः सामादिभिर्नयो नीतिरिव । युगवद्दीर्घैश्चतुर्भिर्दोर्भिर्भुजैर्हरिर्विष्णुरिव । तदीयैर्हरिसंबन्धिभिरंशैरंशभूतैश्चतुर्भिस्तैः पुत्रैरवनिपतीनां पती राजराजो दशरथश्चकाशे विदिद्युते ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रामावतारो नाम दशमः सर्गः।


एकादशः सर्गः ।


   रामचन्द्रचरणारविन्दयोरन्तरङ्गचरभृङ्गलीलया ।
   तत्र सन्ति हि रसाश्चतुर्विधास्तान्यथारुचि सदैव निर्विश ।।

  कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
  काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ १ ॥

 कौशिकेनेति ॥ कौशिकेन कुशिकापत्येन विश्वामित्रेणैत्याभ्यागत्य स क्षितीश्वरो दशरथः। अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय । काकपक्षधरं बालकोचितशिखाधरम् ॥ “बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः” इति हलायुधः ॥ रामं याचितः किल प्रार्थितः खलु ॥ याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः ।


  1. चकासे.