परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् ।
अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥ ८० ॥
परस्परेति ॥ परस्परमविरुद्धा अविद्विष्टाः । सौभ्रात्रगुणवन्त इत्यर्थः । ते कुमारास्तत्प्रसिद्धमनघं निष्पापं रघोः कुलम् । ऋतवो वसन्तादयो देवारण्यं नन्दनमिव ॥ सहजविरोधानामप्यृतूनां सहावस्थानसंभावनार्थं देवविशेषणम् ॥ अलमत्यन्तमुद्द्योतयामासुः प्रकाशयामासुः ॥ सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ॥
समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ ८१ ॥
समान इति ॥ शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः ॥ “नद्यृतश्च” इति कब्न भवति । वन्दिते भ्रातुरिति निषेधात् ॥ तेषां भावः सौभ्रात्रम् ॥ युवादित्वादण् । तस्मिन्समाने चतुर्णां तुल्येऽपि यथोभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः ॥ “द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” इत्यभिव्यक्तार्थे निपातः ॥ क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ॥
तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥ ८२ ॥
तेषामिति ॥ तेषां चतुर्णां मध्ये द्वयोर्द्वयोः । रामलक्ष्मणयोर्भरतशत्रुघ्नयोश्चेत्यर्थः । यथा वायुविभावस्वोर्वातवह्न्योरिव । चन्द्रसमुद्रयोरिव च । ऐक्यमैकमत्यं कदाचन न बिभिदे ॥ एककार्यत्वं समानसुखदुःखत्वं च क्रमादुपमाद्वयाल्लभ्यते ॥ सहजः सहकारी हि वह्नेर्वायुः । चन्द्रवृद्धौ हि वर्धते सिन्धुस्तत्क्षये च क्षीयत इति ॥
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥ ८३ ॥
त इति ॥ प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च । निदाघान्ते ग्रीष्मान्ते । श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः । नातिशीतोष्णा इत्यर्थः । दिवसा इव । प्रजानां मनो जह्रुः ॥
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणामवतार इवा[१]ङ्गवान् ॥ ८४ ॥
स इति ॥ स चतुर्धा ॥ “संख्याया विधार्थे धा” इत्यनेन धाप्रत्ययः ॥
- ↑ अङ्गभाक्.