पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १९९ )
नवमः सर्गः ।

 तमिति॥वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम् । उद्धृतसटा ऊर्ध्वकेसराः सन्तः ॥ “सटा जटाकेसरयोः" इति केशवः ॥ प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन् । अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः॥ एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ॥

  तेनाभिघातरभसस्य विकृष्य पत्री
   वन्यस्य नेत्रविवरे महिषस्य मुक्तः।
  निर्भिद्य विग्रहमशोणितलिप्तपु[१]ङ्ख-
   स्तं पातयां प्रथममास पपात पश्चात् ॥ ६१॥

{{gapतेनेति ॥}} अभिघाते रभस औत्सुक्यं यस्य तस्य । अभिहन्तुमुद्यतस्येत्यर्थः । वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य । शोणितलिप्तो न भवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन् । तं महिषं प्रथमं पातयामास । स्वयं पश्चात्पपात ॥ “कृञ्चानुप्रयुज्यते लिटि" इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् “पातयां प्रथममास" इत्यपप्रयोग इति पाणिनीयाः । यथाह वार्तिककारः- “विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं च" इति ॥

  प्रायो विषाणप[२]रिमोक्षलघूत्तमाङ्गा-
   न्खङ्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः ।
  शृङ्गं स दृप्तविनयाधिकृतः परेषा-
   [३]त्युच्छ्रितं न ममृषे न तु[४] दीर्घमायुः ॥ ६२ ॥

 प्राय इति ॥ नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः खड्गान्खड्गाख्यान्मृंगान् ।। "गण्डके खड्गखड्गिनौ " इत्यमरः ॥ प्रायो बाहुल्येन विषाणपरिमोक्षेण शृङ्गभङ्गेन लघून्यगुरूण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार । न त्ववधीदित्यर्थः ॥ कुतः । दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं शृङ्गं विषाणं प्राधान्यं च ॥ " शृङ्गं प्राधान्यसान्वोश्च" इत्यमरः ॥ न ममृषे न सेहे । दीर्घमायुर्जीवितकालम् ॥ "आयुर्जीवितकालो ना" इत्यमरः॥ न ममृष इति न ।

किंतु ममृष एवेत्यर्थः॥


  1. शल्यः.
  2. परिमोष.
  3. अभ्युच्छ्रितम्.
  4. च.