पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १८५ )
नवमः सर्गः ।

  अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः ।
  जयमघोषयदस्य तु[१] केवलं गजवती जवतीव्रहया चमूः॥१०॥

 अजयदिति ॥ अधिज्यशरासनः स दशरथ उदधिनेमिं समुद्रवेष्टनां मेदिनीमेकरथेनाजयत् । स्वयमेकरथेनाजैपीदित्यर्थः ॥ गजवती गजयुक्ता । जवेन तीव्रा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत् । स्वयमेकवीरस्य चमूरुपकरणमात्रमिति भावः ॥

  अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
  विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ।।११।।

 अवनिमिति ॥ वरूथिना गुप्तिमता ॥ “वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम्” इति सज्जनः ॥ एकरथेनाद्वितीयरथेनावनिं जितवतो धनुर्भृतो नरवाहनसंपदः कुबेरतुल्यश्रीकस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः । अर्णवान्तविजयीत्यर्थः ॥

  [२]शमितपक्षबलः [३]शतकोटिना शिखरिणां कुलिशेन पुरंदरः।
  स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः॥१२॥

 शमितेति ॥ पुरंदर इन्द्रः शतकोटिना शतास्रिणा कुलिशेन वज्रेण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः ॥ नवतामरसाननो नवपङ्कजाननः ॥ “पङ्केरुहं तामरसम्” इत्यमरः।। स दशरथः शरदृष्टिमुचा स्वनवता धनुषा द्विषां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः ॥“पक्षः सहायेऽपि” इत्यमरः॥

  चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ।
  नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम्।।१३॥

 चरणयोरिति ॥ शतशो नृपतयोऽखण्डितपौरुषं तं दशरथम् । मरुतो देवाः शतमखं यथा शतक्रतुमिव । नखरागेण चरणनखकान्त्या समृद्धिभिः संपादितर्द्धिभिर्मुकुटरत्नमरीचिभिश्चरणयोरस्पृशन् । तं प्रणेमुरित्यर्थः ॥

  निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन ।
  समनुकम्प्य सपत्रपरिग्रहाननलकानलकानवमां पुरीम्॥ १४ ॥


१०-११ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

  जघननिर्विषयीकृतमेखलाननुचिताश्रुविलुप्तविशेषकान् ।
  स रिपुदारगणानकरोद्बलादनलकानलकाधिपविक्रमः ॥


  1. हि
  2. स्फुरितकोटिसहस्रमरीचिना समचिनोत्कुलिशेन हरिर्यशः । स धनुषा बहुसायकवर्षिणा स्वनवता नवतामरसाननः.
  3. शित