पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( १८४ )
रघुवंशे

  समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः।
  अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥६॥

 'समतयेति ॥' नराधिपो दशरथः समतया समवर्तित्वेन । मध्यस्थत्वेनेत्यर्थः । वसुवृष्टेर्धनदृष्टेर्विसर्जनैः । असतां दुष्टानां नियमनान्निग्रहाच्च । सवरुणौ वरुणसहितौ यमपुण्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान्यथासंख्यमनुययावनुचकार । रुचा तेजसारुणाग्रसरमरुणसारथिं सूर्यमनुययौ ॥

 तस्य व्यसनासक्तिर्नासीदित्याह-

  न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
  तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥७॥

 नेति ॥ उदयाय यतमानमभ्युदयार्थं व्याप्रियमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष ॥“आक्षोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्” इत्यमरः ॥ दुष्टमासमन्तादुदरमस्यति दुरोदरं द्यूतं च नापाहरत् ॥ “दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्” इत्यमरः ॥ शशिनः प्रतिमा प्रतिविम्बमाभरणं यस्य तन्मधु नापाहरत् । न वेति पदच्छेदः । वाशब्दः समुच्चये ॥ नवयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत् ॥ जातावेकवचनम् ॥ अत्र मनुः--“पानमक्षः स्त्रियश्चेति मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे” इति ॥

  न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
  [१] च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥८॥

 नेति ॥ तेन राज्ञा प्रभवति प्रभौ सति वासवेऽपि कृपणा दीना वाङ्नेरिता नोक्ता । परिहासकथास्वपि वितथानृता वा नेरिता । किंचापरुपा रोपशून्येन तेन सपत्नजनेष्वपि शत्रुजनेष्वपि परुषाक्षरं निष्ठुराक्षरं यथा तथा वाङ्नेरिता। किमुतान्यत्रेति । सर्वत्रापिशब्दार्थः । किंत्वदीना सत्या मधुरैव वागुक्तेति फलितार्थः ॥

  उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः।
  स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥९॥

 'उदयमिति ॥ वसुधाधिपा राजानः । उद्वहतीत्युद्वहो नायकः ॥ पचाद्यच् ॥रघूणामुद्वहो रघुनायकः । तस्माद्रघुनायकादुदयं वृद्धिम् ।

अस्तमयं नाशं च । इत्युभयमानशिरे लेभिरे ॥ कुतः । हि यस्मात्स दशरथो निदेशमाज्ञामलङ्घयताम् । शोभनं हृदयमस्येति सुहृन्मित्रमभूत् ॥ सुहृद्दुर्हृदौ मित्रामित्रयोरिति निपातः ॥ प्रतिगर्जतां प्रतिस्पर्धिनाम् । अय इव हृदयं यस्येत्ययोहृदयः कठिनचित्तोऽभूत् ।आज्ञाकारिणो रक्षति । अन्यान्मारयतीत्यर्थः ॥


  1. अपि सपत्नजनेन च.