पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बि[१]भ्रदाविलां मृगलेखामुषसीव चन्द्रमाः॥१२॥
पतिरिति ॥ पतिरजोऽङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणामपा- येनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया । उषसि प्रातःकाल आविला मलिनां मृगलेखां लाञ्छनं मृगरेखारूपं बिभ्रद्धारयंश्चन्द्रमा इव । समलक्ष्यतादृश्यत । इत्युपमा ॥
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३॥
विललापेति ॥ सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्य वाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गद शब्दैर्विललाप परिदेवितवान् ॥ "विलापः परिदेवनम्" इत्यमरः॥अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति । शरीरिषु देहिषु । अभिसंतप्तेष्विति शेषः । विषये कैव कथा वार्ता । अनुक्तसिद्धमित्यर्थः॥
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥४४ ॥
कुसुमानीति ॥ कुसुमानि पुष्पाण्यपि । अपिशब्दो नितान्तमार्दवद्योतनार्थः । गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि ॥ हन्त विषादे ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः "इत्यमरः॥ प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत्कुसुमातिरिक्तं किमिव वस्तु ॥ इवशब्दो वाक्यालंकारे कीदृश- मित्यर्थः।। साधनं प्रहरणं न भविष्यति न भवेत् । सर्वमपि साधनं भविष्यत्येवेत्यर्थः।
अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं म[२]ता ॥ ४५ ॥
अथवेति ।। अथवा पक्षान्तरे प्रजान्तकः कालो मृदु कोमलं वस्तु मृदुनैव वस्तुना हिंसितुं हन्तुमारभत उपक्रमते । अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मुत्युर्यस्याः सा तथा नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ॥
स्रगियं यदि जीवितापहा हृदये किं[३] निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥१६॥
स्रगिति ॥ इयं स्रग्जीवितमपहन्तीति जीवितापहा यदि । हृदये वक्षसि ॥