वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ३८॥
वपुषोति॥ करणैरिन्द्रियैरुज्झितेन मुक्तेन ॥ “करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि" इत्यमरः। वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत्पातयति स्म । तथाहि । निषिच्यते निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव । नन्वत्रावधारणे । “प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः ॥ इन्दुमत्या दीपार्चिरुपमानम् ॥ अजस्य तैलबिन्दुः । तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ॥
उभयोरिति ॥ उभयोर्दंपत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ।
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४०॥
भूपतेरिति॥ नृपतेरजस्य तमोऽज्ञानं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम् । आदिशब्देन जलसेककर्पूरमोदादयो गृह्यन्ते । सात्विन्दुमन्ती तथैव संस्थिता मृता। तथाहि । प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने ॥ "आयुर्जीवितकालो ना" इत्यमरः ॥ फलाय सिद्धये कल्पत आरोग्याय भवति । नान्यथा नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम् । तस्यास्तु तदभावाद्वैफल्यमित्यर्थः॥
प्रतीति ॥ अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः ॥ “द्रव्यासुव्यवसायेषु सत्त्वम्" इत्यमरः॥ प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः । या वल्लकी वीणा । तस्याः समावस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवत्सलोऽतिप्रेमवान्सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान् ॥वल्लकीपक्षे तु सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः॥