तस्या इति॥ प्रतिद्वन्द्विभवाद्रिपूत्याद्विषादाद्दैन्यात्सद्यो विमुक्तं तस्यामुखम् । निःश्वासस्य यो बाष्प ऊष्मा ॥ "बाष्पो नेत्रजलोष्मणोः" इति विश्वः॥ तस्यापगमा्द्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः । आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शः। दर्पण इव । आबभासे॥
हृष्टेति ॥ सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया विजिता यतोऽतः प्रियमजं साक्षात्स्वयं नाभ्यनन्दन्न प्रशशंस । किंतु नवैरम्भः पृषतैः पयोविन्दुभिरभिवृष्टाभिषिक्ता स्थल्यकृत्रिमा भूमिः ॥ " जानपदकुण्डगोणस्थल-" इत्यादिनाकृत्रिमार्थे ङीष् ॥ अभ्रवृन्दं मेघसंघ मयूरकेकाभिरिव । सखीनां वाग्भिरभ्यनन्दत् ॥
इति शिरसि स वामं पादमाधाय राज्ञा
मुदवहदनवद्यां तामवद्यादपेतः ।
स्थतुरगरजोभिस्तस्य रू[३]क्षालकाग्रा
समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥७०॥
इतीति ॥ नोद्यते नोच्यत इत्यवद्यं गद्यम् ॥ “अवद्यपण्य-" इत्यादिना निपातः ॥ “कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः" इत्यमरः॥ तस्मादपेतः। निर्दोप इत्यर्थः । सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत् । आत्मसाच्चकारेत्यर्थः ॥ अयमर्थ:- “तमुद्वहन्तं पथि भोजकन्याम्” (७।३५) इत्यत्र न श्लिष्टः ॥ तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्वभूव॥ एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः ॥
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाध्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥७१॥
प्रथमेति ॥ प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन