शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥६४ ॥
शङ्खेति ॥ शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञतया प्रत्यभिज्ञातत्वान्निवृत्ताः प्राक्पलाय्य संप्रति प्रत्यागताः स्वयोधाः सन्नशत्रुं निद्राणशत्रु तमजम् । निमीलितानां }}मुकुलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्क प्रतिबिम्बचन्द्रमिव । ददृशुः॥
सशोणितेस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं संप्र[१]ति राघवेण न जीवितं वः कृपयेति वर्णाः॥६५॥
सशोणितैरिति ॥ संप्रति राघवेण रघुपुत्रेण । पूर्वं रघुणेति भावः । हे राजानो वो युष्माकं यशो हृतं जीवितं तु कृपया न हृतम् । न त्वशक्त्येति भावः । इत्येवंरूपा वर्णाः । एतदर्थप्रतिपादकं वाक्यमित्यर्थः । सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन । प्रयोजककर्त्रा । पार्थिवानां राज्ञां केतुषु ध्वजस्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः । लेखिता इत्यर्थः॥ क्षिपतेर्ण्यन्तात्कर्मणि क्तः॥
स चा[२]पकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥६६॥
स इति ॥ चापकोट्यां निहित एकबाहुर्येन सः। शिरस्त्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः ॥ “चूडाकिरीटं केशाश्च संयता मौलयस्त्रयः" इत्यमरः ॥ ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः । सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो वभाषे ॥
किमित्याह-----
इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ ६७॥
इत इति ॥ हे वैदर्भि इन्दुमति, इत इदानीमर्भकहार्यशस्त्रान्बालकापहार्यायुधान्पराञ्शत्रून्पश्य । मयानुमतासि । द्रष्टुमिति शेषः ॥ एभिर्नृपैरेवंविधेन निद्रारूपेणाहवचेष्टितेन रणकर्मणा मम हस्तगता । हस्तगतवद्दुर्ग्रहेत्यर्थः। त्वं प्रार्थ्यसे। अपजिहीर्ष्यस इत्यर्थः ॥ एवं विधेनेत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ।