पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४१ )
सप्तमः सर्गः ।

सप्तमः सर्गः ।


    भजेमहि निपीयैकं मुहुरन्यं पयोधरम् ।
    मार्गन्तं बालमालोक्याश्वासयन्तौ हि दंपती ॥

  अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् ।
  स्वसारमादाय वि[१]दर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ १ ॥

 अथेति ॥ अथ विदर्भनाथो भोजः सदृशेनोपयन्त्रा वरेण युक्ताम् । अत एव साक्षात्प्रत्यक्षम् ॥ “साक्षात्प्रत्यक्षतुल्ययोः" इत्यमरः ।। स्कन्देन युक्तां देवसेनामिव । देवसेना नाम देवपुत्री स्कन्दपत्नी । तामिव स्थितां स्वसारं भगिनीमिन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव ॥ उपजातिवृत्तं सर्गेऽस्मिन् ॥

  सेनानिवेशान्पृ[२]थिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः।
  भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः॥२॥

 सेनेति ॥ भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या । तामिन्दुमतीं प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृतिषु वेषेषु नेपथ्येषु च साभ्यसूया तथेति निन्दन्तः। किंच। विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नृपा अपि सेनानिवेशाशिबिराणि जग्मुः ॥

 ननु क्रुद्धाश्चेद्युध्यन्तां तत्राह-

  सांनिध्ययोगात्किल तत्र श[३]च्याः स्वयंवरक्षोभकृतामभावः ।
  काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तन क्षितिपाललोकम॥३॥

 सांनिध्येति॥ तत्र स्वयंवरक्षेत्रे शच्या इन्द्राण्याः। संनिधिरेव सांनिध्यम् । तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किल । किलेति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम् ॥ तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ।।

  तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् ।
  वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम्॥४॥

 तावदिति ॥ “यावत्तावच्च साकल्ये" इत्यमरः ॥ तावत्प्रकीर्णाः साकल्येन प्रसारिता अभिनवा नूतना उपचाराः पुष्पप्रकरादयो यस्य तं तथोक्तम् । इन्द्रायुधानीव

द्योतितानि प्रकाशितानि तोरणान्यकाश्चिहानि यस्य तम् । ध्वजानां


  1. विदर्भराजः.
  2. पृथिवीभृतः.
  3. शच्या.