सामग्री पर जाएँ

पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४०)
रघुवंशे

 सेति ॥ करभः करप्रदेशविशेषः ॥ “मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः ॥ करभ उपमा ययोस्तावूरू यस्याः सा करभोपमोरूः ॥ उरूत्तरपदादौपम्ये" इत्यूङ्प्रत्ययः॥सा कुमारी चूर्णेन मङ्गलचूर्णेन गौरं लोहितं गुणं स्रजम् । मूर्तं मूर्तिमन्तमनुरागमिव । धात्र्या उपमातुः सुनन्दायाः कराभ्यां रघुनन्दनस्याजस्य कण्ठे यथाप्रदेशं यथास्थानमासञ्जयामासासक्तं कारयामास । न तु स्वयमाससञ्ज । अनौचित्यात् ॥

  तया स्रजा मङ्गलपुष्पमय्यां विशालवक्षःस्थललम्बया सः ।
  अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः॥ ८४ ॥

 तयेति ॥ वरेण्यो वरणीय उत्कृष्टः ॥ वृत्र एण्यः ॥ सोऽजो मङ्गलपुष्पमय्या मधूकादिकुसुममय्या विशालवक्षःस्थले लम्बया लम्बमानया तया प्रकृतया स्रजा विदर्भराजावरजामिन्दुमतीं कण्ठार्पितो बाहू एव पाशौ यया ताममंस्त ॥ मन्यतेर्लुङ् ॥ बाहुपाशकल्पमुखमन्वभूदित्यर्थः ॥

  शशिनमुपगतेयं कौमुदी मेघमुक्तं
   जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
  इति समगुणयोगप्रीतयस्तत्र पौराः
   श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥८५॥

 शशिनमिति ॥ तत्र स्वयंवरे समगुणयोस्तुल्यगुणयोरिन्दुमतीरघुनन्दनयोर्योगेन प्रीतिर्येषां ते समगुणयोगप्रीतयः पौराः पुरे भवा जनाः । इयमजसंगतेन्दुमती मेधैर्मुक्तं शशिनं शरच्चन्द्रमुपगता कौमुदी । अनुरूपं सदृशं जलनिधिमवतीर्णा प्रविष्टा जह्नुकन्या भागीरथी । तत्सदृशीत्यर्थः । इत्येवं नृपाणां श्रवणयोः कटु परुषमेकमविसंवादि वाक्यमेकवाक्यं विवव्रुः ॥ मालिनीवृत्तम् ॥

  प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।
  उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥ ८६ ॥

 प्रमुदितेति ॥ एकत एकत्र प्रमुदितो हृष्टो वरस्य जामातुः पक्षो वर्गो यस्य तत्तथोक्तम् । अन्यतोऽन्यत्र नितानं शून्यम् । भग्नाशत्वादप्रहृष्टमियर्थः । तत्क्षितिपतिमण्डलम् । उपसि प्रभाते प्रफुल्लपद्मं कुमुदवनेन प्रतिपन्ननिद्रं प्राप्तनिमीलनं सर इव सरस्तुल्यम् । आसीत् ॥ पुष्पिताग्रावृत्तमेतत् ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
स्वयंवरवर्णनो नाम षष्ठः सर्गः ।