रचनो भवति । प्रदीपाश्च स्वकिरणानां परिवेषस्य मण्डलस्योद्भेदेन स्फुरणेन शून्या भवन्ति । निस्तेजस्का भवन्तीत्यर्थः । अपि चायं मञ्जुवाङ्मधुरवचनः पञ्जरस्थस्ते तव शुकस्त्वत्प्रबोधनिमित्ते प्रयुक्तामुच्चारितां नोऽस्माकं गिरं वाणीमनुवदति । अनुकृत्य वदतीयर्थः ।। इत्थं प्रभातलिङ्गानि वर्तन्ते । अतः प्रबोद्धव्यमिति भावः॥
इतीति ॥ इतीत्थं विरचितवाग्भिर्वन्दिपुत्रैर्वैतालिकैः ॥ पुत्रग्रहणं समानवयस्कत्वद्योतनार्थम् । सपदि विगतनिद्रः कुमारः ॥ तल्पं शय्याम् ॥ " तल्पं शय्यादृदारेषु" इत्यमरः ॥ उज्झांचकार विससर्ज ॥ " इजादेश्च गुरुमतोऽनृच्छः" इत्याम्प्रत्ययः ॥ कथमिव । मदेन पटु मधुरं निनदद्भी राजहंसैर्बोधितः सुप्रतीकाख्यः ॥ सुरगज ईशानदिग्गजः । गङ्गाया इदं गाङ्गम् । सैकतं पुलिनमिव ॥ " तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्" इत्यमरः ॥ “सिकताशर्कराभ्यां च" इत्यण्प्रत्ययः ॥ सुप्रतीकग्रहणं प्रायशः कैलासवासिनस्तस्य नित्यं गङ्गातटविहारसंभवादित्यनुसंधेयम् ॥
अथ विधिमवसाय्य शास्त्रदृष्टं
दिवसमुखोचितमञ्चिताक्षिपक्ष्मा।
कुशलविरचिता[३]नुकूलवेषः
क्षितिपसमाजमगात्स्वयंवरस्थम् ॥७६॥
अथेति ॥ अथोत्थानानन्तरमञ्चितानि चारूण्यक्षिपक्ष्माणि यस्य सोऽजः शास्त्रे दृष्टमवगतं दिवसमुखोचितं प्रातःकालोचितं विधिमनुष्ठानमवसाय्य समाप्य ॥ स्यतेर्ण्यन्ताल्ल्यप् ॥ कुशलैः प्रसाधनदक्षैर्विरचितोऽनुकूलः स्वयंवरोचितो वेषो नेपथ्यं यस्य स तथोक्तः सन्स्वयंवरस्थं क्षितिपसमाजं राजसमूहमंगादगमत् ॥ "इणो गा लुङि" इति गादेशः ॥ पुष्पिताग्रावृत्तमेतत् । तल्लक्षणम् - "अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा" इति ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजस्वयंवराभिगमनो नाम पञ्चमः सर्गः।