अत्र याज्ञवल्क्यः-“मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामाफलोदयात्" इति ॥
संप्रति सामाद्युपायान्विनैवात्मरक्षादिकं कृतवानित्याह-
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सो[१]ऽर्थमसक्तः सुखमन्वभूत् ॥२१॥
जुगोपेति ॥ अत्रस्तोऽभीतः सन् ॥ “त्रस्तो भीरुभीरुकभीलुकाः" इत्यमरः ॥ त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवात्मानं शरीरं जुगोप रक्षितवान् । अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे । अर्जितवानित्यर्थः । अगृध्नुरगर्धनशील एवार्थददे स्वीकृतवान् । “गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुमाभौ" इत्यमरः॥" त्रसिगृधिधृषिक्षिपेः क्नुः" इति क्नुप्रत्ययः ॥ असक्त आसक्तिरहित एव सुखमन्वभूत् ॥
परस्परविरुद्धानामपि गुणानां तत्र साहचर्यमासीदित्याह-
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥२२॥
ज्ञान इति ॥ ज्ञाने परवृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम् ॥ यथाह कामन्दकः-"नान्योपतापि वचनं मौनं व्रतचरिष्णुता" इति ॥ शक्तौ प्रतीकारसामर्थेऽपि क्षमापकारसहनम् ॥ अत्र चाणक्यः-"शक्तानां भूषणं क्षमा" इति ॥ त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः ॥ अत्राह मनुः-"न दत्त्वा परिकीर्तयेत्” इति । इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिरनुबन्धित्वात्सहचारित्वात् । सह प्रसवो जन्म येषां ते सप्रसवाः । सोदरा इवाभूवन् ॥ विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥
द्विविधं वृद्धत्वं ज्ञानेन वयसा च । तत्र तस्य ज्ञानेन वृद्धत्वमाह-
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीवृद्धत्वं जरसा विना ॥२३॥
अनाकृष्टस्येति ॥ विषयैः शब्दादिभिः ॥ “रूपं शब्दो गन्धरसस्पर्शश्च विषया अमी" इत्यमरः ॥ अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः ॥ दृशेः क्वनिप् ॥ धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना ॥ "विस्रसा जरा" इत्यमरः ॥ षिद्भिदादिभ्योऽङ्" इत्यङ्प्रत्ययः । “जराया
जरसन्यतरस्याम्" इति जरसादेशः ॥ वृद्धत्वं वार्द्धकमासीत् ॥ तस्य यूनोऽपि
- ↑ अर्थान्.