प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि र[१]सं रविः ॥१८॥
प्रजानामिति ॥ स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृद्ध्यर्थमेव ॥ अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । ग्रहणक्रियाविशेषणं चैतत् ॥ ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत् ॥ “भागधेयः करो बलिः" इत्यमरः ॥ तथाहि । रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधोत्स्रष्टुं दातुम् । उत्सर्जनक्रियाविशेषणं चैतत् । रसमम्ब्वादत्ते गृह्णाति ॥ "रसो गन्धे रसे स्वादे तिक्तादौ विषरोगयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे" इति विश्वः ॥ सम्प्रति बुद्धिशौर्यसंपन्नस्य तस्यार्थसाधनेषु परानपेक्षत्वमाह-
सेनेति ॥ तस्य राज्ञः सेना चतुरङ्गबलम् । परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव । छत्रचामरादितुल्यमभूदित्यर्थः ॥ “पुंसि संज्ञायां घः प्रायेण" इति घप्रत्ययः ॥ “छादेर्घेऽद्व्युपसर्गस्य" इत्युपधाह्रस्वः ॥ अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव । शास्त्रेष्वकुण्ठिताव्याहता बुद्धिः ॥ "व्यापृता" इत्यपि पाठः ॥ धनुष्याततारोपिता मौर्वी ज्या च ॥ “मौर्वी ज्या शिञ्जिनी गुणः" इत्यमरः ॥ नीतिपुरःसरमेव तस्य शौर्यमभूदित्यर्थः ॥
राज्यमूलं मन्त्रसंरक्षणं तस्यासीदित्याह-
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥२०॥
तस्येति ॥ संवृतमन्त्रस्य गुप्तविचारस्य ॥ "वेदभेदे गुप्तवादे मन्त्रः" इत्यमरः॥ शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः । इङ्गितं चेष्टितं हृदयगतविकारो वा ॥
"इङ्गितं हृद्गतो भावो बहिराकार आकृतिः" इति सज्जनः ॥ गूढे आकारेङ्गिते यस्य । स्वभावचापलाद्भ्रमपरंपरया मुखरागादिलिङ्गैर्वा तृतीयगामिमन्त्रस्य तस्य । प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः ॥ प्रागित्यव्ययेन पूर्वजन्मोच्यते । तत्र भवाः प्राक्तनाः "सायंचिर-" इत्यादिना ट्युल्प्रत्ययः ॥ संस्काराः पूर्वकर्मवासना इव । फलेन कार्येणानुमेया अनुमातुं योग्या आसन् ।