पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः मपि अन्तर्मुखं सदात्मस्थमभवत् । ग्रामस्य गंभीरा नीरवता प्रशान्तिश्च मनसः संयमे साहाय्यं प्रायच्छत् । कदा कदापि 'हर हर वम् बम्' ध्वनिना ग्रामस्य रात्रिकालीना निःस्तब्धता भग्नाऽभवत् । मस्तकोपरि संख्यातीत नक्षत्रसंयुक्तो नीलाकाशो वितानवत् प्रसृतो बभूव । ८९ एकस्यां रात्रौ सर्वे ध्याने समुपविष्टा बभूवुः । गभीरस्तब्धतायाः प्रथमो निशायाः प्रहरो व्यत्यगात् । सहसा नरेन्द्रनाथो भावाविष्ट इव नेत्रे उन्मील्य ईसामसीहस्यानुपमजीवनकथामकथयत् । मेरोमातुः क्रोड़े ईसामसीहस्याविर्भावः, तदीयबाल्यकालस्य आडम्बरशून्यदिनानि, तस्य जार्डननदीतटे दीक्षा, तदीयानि विशिष्टानि त्यागतपोवैराग्यादीनि, आत्मानुभूतयः, शिष्यसंग्रहः प्रचाराच नरेन्द्रनाथेनैतादृश्या हृदयस्पृशा भाषया वर्णिताः येन सर्वेषां हृदये ईसामसीहस्य जीवितरूपेण आविर्भाव इवाभवत् । अनन्तरं च ईसामहोदयस्य त्यागिसंघटनवृत्तान्तं परिकीर्त्त्य तेन स्वगुरुभ्रातॄणां सन्निधौ ईसामसोहस्यादर्शमनुसृत्य निजजीवन- संघटनार्थमनुरोधः कृतः । ईसामहोदयः पापितापिनां परित्राता समभवत् । दुःखात् संसारं मोचयितुमसौ क्रास (अङ्कुश) विद्धों भूत्वा प्राणांस्तत्याज । अस्माभिरपि सर्वस्वं परित्यज्य जगद्धिताय स्वजीव- नोत्सर्गो विधेयः । अग्नेरभिमुखं समुत्थाय सर्वेरेव श्रीभगवन्नामस्मरण- पूर्वकं संन्यासशपथग्रहणं विहितम् । 'आत्मनो मोक्षार्थं जगद्धिताय च' अयमेव तेषां संन्यासजीवनादर्शः । ईसा-रामकृष्णयोर्जयध्वनिना दशापि हरितो मुखरिता बभूवुः ।* शपथग्रहणानन्तरं यदा तैर्ज्ञातम् १ ७

  • ईसारामकृष्णयोजवने विचारकार्ययोरनेकानि सादृश्यानि विद्यन्ते ।

ईसामसीहः स्वदेहत्यागपूर्व संन्यासिसंघ संस्थाप्य भगवद्वाणीभावप्रचारभारं स्वीयत्यागिशिष्याणामुपरि समर्पितवानासीत् । श्रीरामकृष्णेनापि देहपरित्यागतः प्राक एकादश शिष्यान् द्वारीकृत्य संन्यासिसंघ प्रतिष्ठाप्य संसारे सद्धर्मप्रचाराय शिष्या निर्दिष्टाः ।... श्रीरामकृष्णेन ईसाईधर्मसाधनाकाले ईसादर्शनमधिगत-