पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः ६८ श्रीरामकृष्णो नरेन्द्रनाथस्य दीर्घेणादर्शनेन व्याकुलो बभूव । नैच्छन्निव तस्य दिनानि व्यतिगन्तुम् | नरेन्द्रोऽपि दारुणदुःखहेतुना दक्षिणेश्वरे न गमनस्य संकल्पमकरोत् । पितामह इत्र संन्यासधर्म गृहीत्वा गुप्तरीत्या गार्हस्थ्यं परित्यक्त निश्चयमकार्षीत् । तेन गृहत्याग- दिनमपि स्थिरीकृतम् । परन्तु श्रीठाकुर: किंचिदपि न निवेदितः । एतस्मिन्नेव काले समाचारो लब्धो यत् श्रीठाकुरस्तस्मिन्नेव दिने कलिकत्ताया एकस्य भक्तस्य गृहे समायाति । तं साक्षात्कर्तुं स तस्य भक्तस्य गेहमुपडुढौके । नरेन्द्रनाथं विलोक्यैव श्रीठाकुरोऽन्यं कमपि वृत्तान्तं नोत्थाप्य तं दक्षिणेश्वरमागन्तु, नितरामनुरुरुन्धे | नरेन्द्र- नाथस्य शतश आपत्तयो व्यर्थीबभूवुः । श्रीठाकुरेण सह दक्षिणेश्वरे तेन गन्तव्यमभवत् । दक्षिणेश्वरमुपतिष्ठत एव श्रीठाकुरस्य भावान्तर- मभूत् । स हि नरेन्द्रसमीपमुपविश्य गानमगायत्- “कथा बोलते डराइ, ना बोलते डराइ | ( आमार ) मने सन्द हय, पाछे तोमाधने हाराइ हाराइ ।”* नरेन्द्रनाथोऽप्यात्मानं निरोद्धु नाशक्नोत् । तस्य वक्षःस्थले- ऽप्यश्रूणां धारा प्रावहत् । ... श्रीठाकुरो रात्रौ नरेन्द्रनाथं समीपमाहूय विजने प्रावोचत्- "अहं जातामि-त्वं भगवत्याः कार्यार्थमागतोऽसि । अतो गार्हस्थ्ये बद्धो भवितुं न शक्ष्यसि । परन्तु यावदहं तिष्ठामि, तावन्मदर्थमन्त्रैव तिष्ठ ।” श्रीठाकुरस्य नेत्रयोरश्रणि समागतानि | नरेन्द्रनाथोऽपि शिरो नमयन् रुरोद | इदानीं तस्य गृहत्यागो निरुद्धः ।... द्वितीय दिने नरेन्द्रनाथो गृहमागच्छत् । पुनश्चिन्ताशतेन तस्य हृदयमाच्छादितमभूत्। अतिपर्यटनानन्तरम् अटार्नीकार्यालये एक-

  • अर्थात् वृत्तान्तस्य कथने विभेमि, न कथनेऽपि भीतो भवामि, मम मनसि

सन्देह उत्पद्यते यत् सम्भवतस्त्वामहं बिरहेयं विरहेयम् ।