पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः जीविकान्त्रपणे बभ्राम। वर्षंतुरागमत् । वृष्टिभिरार्द्रतां गतो दिनं यावद् बुभुक्षितः सन् क्लान्तशरीरो रात्रौ गृहं प्रत्यागच्छत् । शरीरमेतावदधिकं क्लान्तत्वमगच्छद् यद सरणमतिकठिनमभवत् । विवशो भूत्वा मार्गस्य सन्निधाने कस्यचिद् गृहस्य बहिर्वेदिकायां मृतवत् पतितोऽभूत् । शतशश्चिन्ताभिस्तदीयं मनः समाक्रान्तमचोभूयत । अचेतन इव कियत्कालं यावत् तत्र पतितोऽतिष्ठत् इति न तेनाज्ञायत | सहसैव तदभ्यन्तरम् एकेनालौकिकेन प्रकाशेन समाक्रान्तम् । समस्तमपि संशयजालं छिन्नं भिन्नमभूत् । तत्रैकस्यानिर्वचनीयानन्दस्य शान्तेश्च साम्राज्यं प्रसृतमभवत्। शरीरे ईपदपि क्लान्तिर्नासीत्, केवल मानन्दातिरेको मनसि चासीमबलं शान्तिश्च व्यराजत । यदाऽसौ गृहं प्रतिन्यवर्त्तत तदानोमरुणामया चतस्रो दिशो रञ्जिता बभूवुः । तेन मोहमुक्तं नवजीवनमिव लब्धम् ।... ६७ · तस्मिन्समये नरेन्द्र समानो मेधावी प्रतिभाशाली युवको बी० ए० परीक्षामुत्तीर्णः सन्नपि एतावत्या चेष्टया साधारणीं भृत्यतामपि नाधि- गन्तुमशक्नोदित्य विश्वासस्य घटना विद्यते । एकोऽदृश्यहस्तः प्रतिपदं दुर्लंघ्यबाधा: प्रादुर्भावयन् नरेन्द्रस्य सर्वामध्यर्थोपार्जनचेष्टां व्यर्थ- यांचकार । एतस्यायमाशयो यत्- भगवदिच्छया बृहत्तरप्रयोजना- नुष्ठानाय नरेन्द्रेण संसारत्यागिसंन्यासिना भवितव्यम् । सांसारिकस्य आनन्दविलासस्य आत्मीयपरिजनमायाममतादीनां च पन्थाः तस्य कृते न विद्यते । एतदतिरिक्तं नरेन्द्रस्याभ्यन्तरे विराणमानवताया विकासाय सांसारिकदुःखदारिद्रयैः सह परिचयस्य प्रयोजनीयत्व- मासीत् । अतस्तदानीं बहुविधविघ्नबाधाहताशाकष्टाभ्यन्तरतः तदीय- जीवनस्य गतिमार्गो बभूव । दुःखकष्टदहनेन तस्य जीवनमौज्ज्वल्य- मण्डितमभूत् ।...