युगाचार्य- विवेकानन्दः ६४ कंचुकं परिदधत् कैदर्यान्वेषणाय स्थानात् स्थानं परिबभ्राम। सुहृदां वैमुख्येन तस्मै सौहार्दस्य यथार्थस्वरूपं प्रदर्शितम् । जनन्या मलिनमाननमालोक्य तदीयं चेतो व्याकुलीबभूव । लघूनां भ्रातृभगिनीनां शीर्णानि शरीराणि निरीक्षमाणस्य तस्यो द्विग्नतया विविक्तेऽश्रुणि प्रावन् । चतुर्दिक्ष्वन्धकारः प्रससार | कुत्रापीषद्प्याशायाः प्रकाशस्तेन नादृश्यत । प्रातःकाले समुत्थाय स खाद्यभण्डारगृहे कियत्तण्डुलानि इति विलोक्य स्थितेः परिज्ञानं कृत्वा स्नानमनुष्ठाय च 'निमन्त्रणमस्ति' इति व्याहरन् गृहान्निरगच्छत् । दिनं यावद् भृत्य - तान्य कार्यालयद्वाराणि परितो बम्भ्रम्यमाणोऽसौ सर्वतोऽपि नैराश्यमादाय परावर्त्तत । तेन यथार्थतः संसारपरिचयः प्रातः । परिज्ञातवानसौ- अनाथ- दुर्बलदरिद्रदुःखिनां कृतेऽत्र किमपि स्थानं नास्ति । पृथिवीयं प्रेत- निर्मितेव प्रत्यभासत । कदाचिदसौ प्रोवाच - "एकस्मिन् दिवसे प्रखरा॒तपेऽनावृतपादौ प्राज्वलतां, मान्युमेण्टस्य छायायां किंचिद् विश्रामायोपाविशम् । तदानीमेव तत्र द्वौ सुहृदौ समायातौ । एको - - गानमारभत – 'बहिछे कृपाघन ब्रह्मनिश्वास पवने' - इत्यादि । समाकर्ण्य मयैतदनुभूतं – मम शिरसि केनाप्याघात इव कृतः । मयोक्तं, तिष्ठ, शान्तो भव, बुभुक्षाज्वालया येषां परिजनैः कष्टं नानुभूयते, कृष्य- माणव्यजनपवन' सेवमानानां कृते कल्पनैतादृशी सुमधुरा भवितुमर्हति, मयापि कदाचिदेवमनुभूतम् । परन्तु कठोरसत्यस्य समीपेऽक्षरशस्तत् परिहासवत्प्रतीयते ।” सुहृदो दुःखमन्वभूवन् ।" “धनवन्तः सुहृदो गानं गातुं मां प्रायः समाह्वयन् | तेषामनुरोधं विफली कत्तु मशक्यत्वादहमगच्छम् । परन्तु कोऽपि मम दुर्दश।वृत्तान्तं परिज्ञातुं नैच्छत् । मयापि कस्मैचन निजक्लेशवृत्तान्तो नाख्यातः ।”
- वायुप्रवाहे ब्रह्मणः कृपापूर्णा निश्वासः प्रवहति, इत्यादि ।
-