पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः १८८४ ईसवीयस्यारम्भे बी० ए० परीक्षा समाप्तिमगमत् । परीक्षा- प्रदानार्थं तेनामानुषिक: परिश्रमो विहितः । परीक्षाफल प्रकाशने विलम्ब आसीत् । मित्रैस्तमादाय बहुपु स्थानेष्वामोदप्रमोदायोजन- मनुष्ठितम् | सुहृदस्तं बलान्निन्युः । तस्मिन् बन्धुप्रेम एतावदधिकमासीद् यदसावस्वीकतु भजनगानहास्यपरिहास विविधालापा- लोचनादीनां माध्यमेन सर्वेभ्यो विमलमानन्दं प्रायच्छत् । तदानीमसौ विंशतिवर्षदेशीयोऽभूत् नाशकत् । i । ६३ एकदा बराहनगरे मित्रस्यैकस्य गृहेऽसावगच्छत् । रात्रौ एकादश- वादनं यावत् संगीतस्यालापा: प्राचलन् । भोजनं समाप्य सर्वे शयनमकाषु: । रात्रौ प्रायशो द्विवादने काले तस्य सुहृत् हेमालीनामा समागत्य सूचितवान् यत् हृदयरोगाक्रान्तस्तदोयजनको विश्वनाथदत्तो निशि दशवादने निजशरीरमत्यजत् | हृदयविदारकं संवाद मिममा- कण्यैव नरेन्द्रनाथ झटिव्युत्थितो गृहं प्रत्यागत्य, इष्टमित्राण्याहूय, पितुः शत्रं गंगातटे श्मशानघट्टमानीय, यथाशास्त्र मन्तिमां क्रियां सम- नुष्ठाय सर्वैः सह प्रातःकाले गृहं प्रत्याजगाम । एकस्य द्वयोर्मासयोर्वाऽभ्यन्तर एव नरेन्द्रनाथस्य पारिवारिक जीवने महानेक: संकटसंकीर्णो मुहूर्त उपतस्थौ । पिता एकां वराटिकामपि न तत्याज । ऋणमपि किञ्चिदासीत् । सर्वतः प्रथमं जननो भ्रातृ भगिनीसहितानां सप्त व्यक्तीनां कृते अन्नवस्त्र प्रश्नः समुपस्थितः । ऋणप्रदा महाजना अपि समयं दृष्ट्वा सम्मुखमागताः । नरेन्द्रेण स्त्रजीवने प्रथममेवेदं दरिद्रतादेव्या दर्शनं कृतम् । स च नग्नपादो विदीर्ण च

  • बो० ए० कक्षाध्ययनकाल एव भविष्यविषयमालोच्य तस्य पिता

नरेन्द्रनाथं सुप्रसिद्धस्य अटान-निमाइचरणत्रसोरधीनत्वे अटार्नीकार्यं शिक्षितुं न्ययोजयत् विवाहार्थं गुप्तरीत्या च कन्याया अन्वेषणमप्यकरोत् । किन्तु नरेन्द्रस्यैकैव वार्ता – "विवाहं न करिष्यामि ।” .3