पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः सम्बन्धे स तदानों यावदपि कमपि निश्चितसिद्धान्तं न प्राप । तस्या- लौकिकी शक्तिरतदीयविस्मयहेतुतामभजत् ।" तोत्रा मेधा, उर्वरं मस्तिष्कं, सबलो देहः, बलिष्ठं मानसं, पृथ्वी- पर्यटनसमर्थौ द्वौ पादौ, सर्वमेतत् स्वसहायकं गृहीत्वा स सत्यस्यान्वेषणे चलितुं शक्नोति । एतादृशे संकल्पे सुदृढो भूत्वा पुरुषकारमधिकं मन्यमानः कठोरकौमार्यव्रते, कृच्छ्रसाधने च व्रती बभूव । गेहे स्वाधीन-जीवनयापने, ध्याने, भजने चासौविध्येन हेतुना पार्श्वस्थे मातामही गृहे एकस्मिन् प्रकोष्ठे एकाकी न्यवसत् । प्रकोष्ठं तदतिविविक्तं लघुतरं चासीत् । तत्र किंचिद् वस्त्वपि नाभूत् । कुट्टिमे शेते स्म । चतुर्दिक्ष पुस्तकानि विकीर्णान्यभूवन् । केवलं 'चाय' पदार्थसाधनानि बभूवुः | मध्ये मध्ये 'चाय'मपिबत् । रात्रिन्दिवमपठत्, ध्याने धार- णायां च न्यमज्जत् । परन्तु समाधानं न किमपि प्राप्नोत् । यावद्ध्यान- मग्नस्तावन्मनसः समस्तामपि चिन्तां निःसार्य विमलमानन्दमनिर्व- चनीयां प्रशान्ति चानुबभूव । किन्तु ध्याने भग्ने चिन्ताशतसर्पिणीदष्ट इव समुद्विग्नोऽभवत् । तदीयो मानसिकः संग्रामो निद्रावस्थायामपि प्राचलत् । यस्मिन् दिने तेन श्रीरामकृष्णमुखादाकर्णितं यदीश्वरो द्रष्टु शक्यते, तेन साकं वार्ताऽपि कर्त्तं पार्यते, तस्माद् दिनादेव वृत्तान्तोऽसौ तस्य मानसमारूढः। तेनेत्थ मध्यवधारितं यद् वृत्तान्तोऽसौ अर्थहीनः प्रलापमात्रं नास्ति। श्रीरामकृष्णेन स्वयमीश्वरं दृष्श्र्व तादृशमुक्तम् । तथापि तस्य विद्रोहशीलं मनस्तस्य शिष्यतायै प्रस्तुतं नाभूत् । नरेन्द्रनाथो ब्राह्मसमाजे नियमितरूपेण ईसाईधर्मप्रचारकारणां व्याख्यानमध्यशृणोत् । स मूर्तिपूजाया: प्रबलो यातायातमकरोत् । विरोधी । रामकृष्ण आसीत् कालीमातुरूपासकः । तत्सन्निधाने काली