पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः - लोकैपणा: पूर्णतया विरह्य्य परमतत्त्वधारणप्रचाराय तमुपयुक्तमा- धारं निर्मातुं सदा सचेष्ट आसीत् । किं नरेन्द्र: पाषाणमयः ? मैवम्, स खलु रामकृष्णस्या है तुकप्रेमगाम्भीर्यं सदाऽवाधारयत् । स स्वहृदये तदन्वभवत् । किंतु प्रारम्भेऽसौ तस्य निग्रहे नागन्तुमैच्छत् । श्रीराम- कृष्णः कथं तस्मिन् स्निह्यति इति स न तावदवागच्छत् । एतदतिरिक्तं श्रीरामकृष्णस्य पूर्णरूपेण परीक्षां विना तं पूर्णतया न ग्रहीष्यति - नरेन्द्र- नाथस्यैताश एव मनोभावः । अनन्तरं च स श्रीरामकृष्णं स्वजीवनस्यै- कमात्रादर्शरूपेणागृहात मानवदेहेऽवतीर्ण श्रीभगवतः श्रेष्ठविकास- स्वरूपं च तममन्यत । परमेतदेकदिनेन दिनद्वयेन वा न वभूव । सुदीर्घ पञ्चवर्षाणि तेन पढ़े पड़े श्रीरामकृष्णस्य परीक्षणमनुष्ठितम् । तस्य प्रत्येकं कार्य, प्रत्येकं व्यवहारः प्रत्येकमलौकिकं दर्शनं च पूर्णरूपेण तेन विचारितम् । यथा सुवर्ण मार्जनघर्पणादिना समुज्ज्वलं भवति, तथैव श्रीरामकृष्णजीवनमपि परीक्षणैरेभिरधिकं समुज्ज्वलम- " , ४७ भवत् । तस्मिन् दिवसे विभ्रान्तचेतसा नरेन्द्रनाथेन दक्षिणेश्वरात् स्वगृह- मागतम् | बी० ए० कक्षायामपठत् । अध्ययने मनो निवेशितम् । ब्राह्मसमाजे गतागतं कृतम् । समाजस्य रविवारस्योपासनाकाले तस्य मधुरं प्रार्थनासंगीतं सर्वानपि मुग्धानकरोत् । विभिन्नस्थानीयवर्मा- लोचनासु स सम्मिलितोऽभवत् । सङ्गीतचर्चा न परित्यक्ता । मित्राणां सम्मेलने गन्तव्यमेवाभवत् ! समाजसंस्कार विधवाविवाह-खाद्याखाद्य- विचार-जातिविवेकादिविषयेषु स ओजस्वि भाषणमदात् ।* श्रीठाकुरस्य जीवनं तदभिमुखं प्रहेलिकावत् प्रतीयते स्म । सत्यो- पलब्धिस्तस्य जीवनोद्देशः । एतदर्थमसौ जीवने पणमकरोत् । सत्यद्रष्टुः पुरुपस्यातिरिक्तो न कोऽप्यन्यो मानवस्तमस्मिन् सार्गेऽमेसारयितुं साहाय्यं दातुं च समर्थः - एतदप्यसाववेदीत् । परन्तु श्रीरामकृष्ण-

  • श्रीरामकृष्णदेवोऽवदत् - "नरेन्द्रो नग्नः करवाल इव ।”