पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्द : आविरावी एधि | वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीरनेनाधीते- नाहोरात्रान्संदधामि | ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु | अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् । ॐॐ शान्तिः शान्तिः शान्तिः । सामवेदीयः शान्तिपाठः- - ३९४ ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथ बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मोपनिषदम् । माहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरोदनिराकरणमस्तु, अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मारते मयि सन्तु, ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः । अथर्ववेदीयः शान्तिपाठः- ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरै- रङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः । ॐ श्रीराम कृष्णार्पणमस्तु हरिः ॐ तत् सत् ॐ