पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विविधवेदगताः शान्तिपाठा: इमे ओजोगाम्भीर्यगुण- परिपूर्णाः शान्तिपाठाः श्रीविवेकानन्द- |स्वामिनः अत्यन्तप्रियाः आसन् । स्वामी एतान् पाठान न केवलं स्वयं मधुरस्वरेण गायति स्म, अपि तु अन्यानपि भक्तगणानश्रावयत् । शुक्लयजुर्वेदीयः शान्तिपाठः- ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः । कृष्णयजुर्वेदीयः शान्तिपाठः— ॐ सह नाववतु सह नौ भुनक्तु सह वींर्यं करवावहै। तेजस्वि- नावधीतमस्तु मा विद्विषाव है । ॐ शान्तिः शान्तिः शान्तिः । ॐ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः शं नो विष्णरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो | त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि | तन्मामवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । ऋग्वेदीयः शान्तिपाठः- ॐ वाङ मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । -