युगाचार्य - विवेकानन्दः देवोऽपि नास्मि मनुजो न पशुस्तथा हं नारी न चास्मि च पुमान्न ( मनः शरीरम् | शास्त्राणि विस्मयपराणि मम स्वरूपं नालं प्रकाशयितुमद्य यतोऽस्मि सोहम् ||५|| पूर्व दिवाकरनिशाकरजन्मतोऽपि प्राग्धूमकेतुगणतार कवृन्दसूतेः । दिक्कालयोरपि यदा न जनिस्तदानो- मासं तथा 'ह' मधुना भविता च नित्यम् ॥ ६॥ भूः शोभना, किरणभास्वरभास्करोऽपि चन्द्रः प्रकाशमधुरो वियदुज्ज्वलं च । हेतोरधीनमखिलं विचरत्यभीक्ष्णं बन्धेन जीवति पुनर्विलयं प्रयाति – ||७|| विस्तार्य कञ्चकमिव स्वमसत्यजालं तेषामुपर्यथ च तानि दृढं गृहीत्वा । भूस्वर्गलोकनिरयान्सदसच्च चित्तं चित्रं सदा वयति नैकविचारसूत्रैः ! ॥८॥ दिक्काल कार्यं करणादिकमेव सर्व जानीहि मित्र ! बहिरावरणं न सत्यम् । अस्मीन्द्रियादपि परो मनसो विचाराद् द्रष्टाखिलस्य जगतः खलु साक्षिरूपः ॥६॥ द्वैतं बहुत्वमसदस्ति सदेकमेवं मय्येव विश्वमखिलं ह्यहमेव सर्वम् । द्वेषो न चास्ति मयि नापि विभिन्नभावो मत्तो यतोऽस्ति न परं प्रियतामयोऽहम् ||१०||
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/४००
दिखावट