पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः तारुण्योज्ज्वलरम्यांगो वेदसिद्धान्तदर्शनः । विश्वव्यापकहत्प्रेमा विशालज्ञानलोचनः । त्वत्तो न हि परः कोऽपि विवेकानन्द ते नमः ।। ४ ।। भवरोगमहावैद्यो वेदान्ताभयदायकः । मनोमलमहाशुद्धः कमलाक्षमहाशयः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ५ ॥ कलिदोषमहावह्निः साक्षाच्छिवविलोचनः । दिव्यचारित्र्यपूर्णश्च विवेकान्धजनाञ्जनः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ६ ॥ राजराजशिरोरत्ननिघृष्टचरणोत्पलः । महामतिर्महाभागो भूगर्भव्योमपारगः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ७ ॥ निर्विकल्पसमाधिस्थो विचारणविशारदः । चिन्मात्रदिव्यपूर्णाङ्गश्चरमोन्नतिदायकः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥ ८ ॥ भारतोद्धार संव्यक्तसर्वसौख्यातिमानवः । धर्मग्लानिमहारात्रिप्रभातैकसुभावनः । त्वमेव हि महास्वामिन्विवेकानन्द ते नमः ॥ ६ ॥ सद्योजाताय ते स्वामिन् विश्वैककमलावले । नमस्तुभ्यं नमस्तुभ्यं विवेकानन्द ते नमः ॥१०॥ महावीर्यधरो राजा भूपानां यमिनां तथा । पराक्रमप्रभावेण जितेन्द्रियो महाबलः । त्वमेव हि नमस्तुभ्यं विवेकानन्द ते नमः ॥११॥ ३८२