दुगाचार्य - विवेकानन्दः ३७४ श्री विवेकानन्दस्तोत्रम् * जीवसेवाव्रतं यस्य लक्ष्यमासोन्महीतले । ज्ञानमात्मगतं यो वै तेन मार्गेण संगतः || कर्मिणे ज्ञानिने चैव भक्ताय स्वामिने पुनः । विवेकानन्दरूपाय भूयो भूयो नमाम्यहम् ।। यत्सेवाव्रतमामनन्ति मुनयो बुद्धो जिनः शंकरः श्रीरामः कमनीयकाम्यकवने वृन्दावने माधवः । जाहव्या: सुतटेषु गौरगहने गौराङ्गदेवो यथा तत्सेबाव्रतमद्य साधकवरः स्वामी पुनर्घोषते ॥१॥ देवा नागाश्च यक्षाः खगभुजगवणाश्चाप्सरोवंशभूता गन्धर्वा राक्षसा ये सकलभुवनजाश्चासुरा वृक्षजाताः । शत्रुमिंत्रं च ये वा निखिलनरकजा यातनास्थाश्च जीवा आब्रह्मस्तम्बरूपं जगदिदमखिलं तृप्यतां तृप्यतां भोः ॥२॥ चण्डालो ब्राह्मणो वा गुरुरुत वयसा लाघवः पण्डितो वा मूर्खो दीनो धनाढ्यः सकलगुणगणैरन्वितो निर्गुणो वा । सर्वे नारायणास्ते वयमपि च तथा यूयमध्यत्र भूता आत्मा नारायणोऽयं प्रचरति बहुशः सेव्यतामात्मरूपः ॥३॥ द्वारे भिक्षुर्बुभुक्षुः कथयति करुणं "मुष्टिमेयं कदन्नं” क्षुद्रो मार्जारको मे विलपति नितरां “देहि मे मत्स्यखण्डम् ।” ते सर्वे भूतजाताः सममपि जगतां सेविताश्चेद्भवेयु नूनं सैवात्मसेवा भवति च सकला नान्यतः सेवनान्मे ||४||
- उद्बोधनपत्रिकातः स्वत्वाधिकारिणामनुमतिक्रमेण त्रयोविंशतिवर्षस्य
दशमसंख्यायाः संगृहीतम् ।