पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६९ २४ स्वामिविवेकानन्दस्तोत्राणि विवेकानन्द-प्रणतिः यदा यदा निर्मलधर्मदपणे कलङ्करेखा निपतत्यहो तदा । श्रीभगवान्दयार्णवो प्रजायते विशोधनार्थं खलु दर्पणस्य च ॥ १ ॥ यदा स्मार्ताचार्याः श्रुतिमतविरोधेन हि पुन- र्भजन्ते साकीर्ण प्रभवति मतं भेदविषये । विवेकानन्दोऽयं कथयति कथां चौपनिषदी- मभेदो जीवानां प्रतिघटपटं ब्रह्मवसतिः ॥ २॥ न जातिभेदो न च वर्णदुष्टि- र्येनापि केनापि पथा भजस्व | दयार्णवस्ते शरणं तथा स्या- द्यथा नदीनां शरणं समुद्रः ||३|| या भेदबुद्धिर्विहिता तु शास्त्रे साज्ञानलाभं विहिता न पश्चात् । ज्ञाने प्रजाते न हि विद्यते सा समन्वयः सर्वगतो विभाति ॥४॥ उदारता यस्य हि सार्वभौमिकी न द्वेषलेशोऽपि च यस्य मानसे | सर्वास्तु नार्यो जननीव पूजिता नराश्च नारायणवत्सुमानिताः ||५|| वेदान्ततन्त्रेषु कथाविचारे यस्यैव बुद्धिः कुशवत्सुतीक्ष्णा ।