पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- हेस्टीसाहबस्तदानीं 'जनरल असे बिलज'स्याध्यक्ष आसीत् । पवित्रजीवनोदारस्वभावपाण्डित्यानां बहुमुख्या: प्रतिभायाश्च हेतुना स छात्राणां सविशेषश्रद्धापात्रता मगच्छन् । साहित्याध्यापकस्यास्वा स्थ्यात् स छात्रान् साहित्यमध्यापयितुमाजगाम | 'वर्डसवर्थ'स्य 'दी एक्स्कर्शन' नाम ककवितामपाठयत् । प्राकृतिक सौन्दर्यदर्शनेन पूर्ण- रूपेण नैजमात्मानं विस्मृत्य कवेर्मनोऽतीन्द्रियराज्यमासाद्य कथमिव समाहितं जायते, इत्यस्य व्याख्यां कुर्वन् साहब: प्रोवाच - "तादृशा- वस्थाधिगमो नितरां दुर्लभः | मनसः पवित्रतायाः, कस्मिंश्चन वस्तु- न्येकाग्रतायाश्च फलस्वरूपा एतादृशी दशा प्राप्तुं शक्यते । मया दक्षिणेश्वरे एकमात्रपरमहंसदेवस्य तादृगवस्थासद्भावो दृष्टः । तदीया साऽवस्था यदि युष्माभिरेकदिनमपि द्रक्ष्यते तदा समाधिः किं वस्त्वि त्यवधारयितुं शक्ष्यते ।” हेस्टीसाहबस्य मुखात् सर्वतः पूर्वं नरेन्द्रनाथेन श्रीरामकृष्णदेव- वृत्तान्तः श्रुतः, किन्तु तस्य का प्रतिक्रिया बभूवेति न ज्ञातमभूत् । - नरेन्द्रनाथो हेस्टीसाहबतो दर्शनशास्त्राण्यपठत् । छात्रस्य प्रतिभया मुग्धो भूत्वैकदिने साहबः प्रोवाच – “नरेन्द्रनाथदत्तो वस्तुत एकः प्रतिभावान छात्रों वर्त्तते । मया अनेकानि स्थानानि दृष्टानि, परमेता- दृश: छात्रः कापि नावलोकित: । किमन्यत्, जर्मन विश्वविद्यालयेऽपि दार्शनिकेषु छात्रेषु एतादृशो नासीत् | युवकोऽयं संसारे नूनमेव ख्यातिं प्राप्स्यति ।" ...