सामग्री पर जाएँ

पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य- विवेकानन्दः सन्तुष्टो नाऽभूत् । पितुरौदर्येण, दोनदुःखिभ्यो दानेन, बन्धुप्रोतिहेतो- र्यथासमयं सर्वेषां भोजनपानादिदानेन, स्वजनबन्धूनां पालनपोषणेन च आयस्यापेक्षया समधिको व्ययोऽबोभूयत । आगामिनो दिनस्य कृते कोऽपि सञ्चयो नातिष्ठत् । पत्नीपुत्रयोर्भविष्यद्भावना न तस्यासीत् । वयसि प्रवर्धमाने नरेन्द्रनाथ: परिवारभविष्य द्विषये शोचन् चिन्ति- तोऽभूत् । एकस्मिन् दिने तेन पिता प्रोक्त:- "मदर्थं कि कृतम् ?” पिता मुख पुत्रस्य निरीक्ष्य प्रोवाच - "गत्वा दर्पणे निजामाकृतिं पश्य, तेनैव त्वं ज्ञास्यसि यन् मया त्वदर्थं किं कृतम् ।” - - २६ शिरो नम्रं कुर्वन् नरेन्द्रनाथो गतः । तेन पितुरिङ्गितमवगतम् | “तेन स्वल्पं न प्रदत्तम्, उदारहस्ताभ्यां मम जीवनमापूरितम् ।” "