पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः दृष्टिकोणेन, तात्कालिकसमाजसुधारक विचारैरपि सुपरिचितो भवन् ब्राह्मणां सन्निधानेऽपि गन्तुमारब्धवान् । २३ तदीये मनसि प्रश्नोऽयमपि जागरूको बभूव यदेतस्य दृश्यमान- संसारस्य सुनियन्त्रितपरिकल्पनायाः पृष्ठतः किमेतादृशी काचिद् विराट्शक्तिरस्ति, यस्त्रा इङ्गितेन जडजगदिदं परिचाल्यते ? सर्वतो- ऽभ्यर्हितं मनुष्यजीवनस्य किमुद्दश्यमिति जिज्ञासाऽपि तदीयं मानस- मध्यकरोत् । संसारे एतावन्ति दुःखानि वैषम्याणि च कथम् ? धन- शालिनां सौधसमीपे निष्किञ्चनानां पर्णकुटीराणि, एकं च राष्ट्र धनैश्वर्यबलसमुन्नतम् द्वितीयं च जातीयदुःखदुर्दशादिभिः पददलितं सत् मृतप्रायमिव कथम् ? एतादृशी चिन्तापरम्परा तदीयमानसोत्कण्ठा- भावमुदपादयत् । वैयक्तिक-सामाजिक-राष्ट्रियवैषम्याणि तस्य हृदयं विद्रोहजनकमकाषुः । " अवस्थयैव साकं तस्य ज्ञानहापि ववृ । वर्डस्वर्थकाव्यानि तदीयमनसि गभीरं प्रभावमुपादयन् । 'डेकार्टे' - महोदयस्य अहंवादः, ह्य मवेनयो'र्नास्तिक्यवादः, 'डारविन' स्योत्कर्षवादः, 'स्पेन्सर'स्य चाज्ञेय- वादश्च, नरेन्द्रनाथहृदये विलवमुपास्थापयन् । किमधिकम् प्राचीनस्य 'आरिस्टाटल'स्य (अरस्तू) मतमपि तेन नोपेक्षितम् । पुनरीदृशं दिनमप्यायातं, यदा तेन रुद्धकण्ठेन व्याहृतम् – “यत् किञ्चिन्मयाऽधीतं तत् सर्वं विस्मृतं भवतु ।” परन्तु भावोऽयं सामयिकः । तदीया सहजाता ज्ञानस्पृहाऽऽसीत् । तस्य च जन्मगताः संस्कारा धर्मविश्वासश्च, संसारिक्यः समस्याविषमताश्च तदीयं हृदयमुन्मथ्य तुमुलं संघर्षमुद- पादयन् । एतेषां सर्वेषां समाधानान्वेषणाय सोऽत्यन्तमशान्तो बभूव । पाश्चात्त्यदर्शनैर्विशेषरूपतः प्रभावितोऽप्यसौ प्राच्यप्रतीच्यदर्शन- तुलनात्मकाध्ययनानन्तरं प्रोवाच - "हिन्दुदर्शनानि इतिहासयुगस्य पूर्वत एव यस्य परमसत्यस्योपलव्व्या स्थिरं सिद्धान्तं प्रत्यपादयन्,