पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

he Appone taipogi स्वामि-विवेकानन्दजीवनस्य संक्षिप्तघटनापञ्जिका १८६३ ई० जनवरी १२, पौषसंक्रान्तिः, कृष्णा सप्तमी तिथिः, सोमवार: सूर्योदयस्य निन्तरं ( ६-४६ मिनट ) कलिकत्तायां जन्म । १८८१ ई० नवम्बरमासे ( कलिकत्ता ) सिमुलिया- विभागे सुरेन्द्र- नाथमित्रस्य भवने श्रीरामकृष्णदेवस्य प्रथमदर्शनम् । १८८१ ई० पौषमासस्यैकस्मिन् दिने रामचन्द्र-सुरेन्द्रनाथाभ्यां सह शकट्यां दक्षिणेश्वरे श्रीरामकृष्णदेव चरणोपान्त आगमनम् । - १८८४ ईसवीय हायनस्यारम्भे बी० ए० परीक्षायाः कियद्दिनानन्तरं स्वामिनः पितृवियोगः । १८८५ ईसवीय दिसम्बरस्यैकादशदिवसे श्रीरामकृष्णदेवस्य कॅन्सर- रोगचिकित्सार्थं काशीपुर-विभागस्योद्यानभवने आगमनम् | गुरुदेवस्य सेवायां स्वामिनः आत्मनियोगः । १८८६ ईसवीयागस्तमासस्य षोडशदिवसे दोलनपूर्णिमायां रात्रौ एकवादनानन्तरं पण्मिनिटसमये श्रीरामकृष्णदेवस्य महासमाधिलाभः | ईसवीयोत्तरायणारम्भसमये कतिपययुवभक्तैः साकं १८८६ आँटपुरे बाबूरामस्य भवने गमनम्, संघबद्धता-संकल्पग्रहणं च । १८८७ ईसवीयजानवरीमासे कस्मिंश्चित्समये बराहनगरमठे संन्यासग्रहणम् | परिव्राजकरूपेण निष्क्रमणम् । १८८८ ई०, बराहनगरमठात्