३०० युगाचार्य-विवेकानन्दः गंगामालोकयन् समवातिष्ठत । सम्मुखे पूतसलिलाया जाह्नव्याः पूर्वतटे श्रीरामकृष्णदेवदेहस्य यत्रैव दाहसंस्कारः जातः तदेव इमशानम् । सेवकं ब्रह्मचारिणं बहिरूपविश्य जपितुमादिश्य स्वयमपि इस्तेन जपमालामादाय पूर्वाभिमुखः जपप्रवृत्तोऽभवत् । प्रायशः मुहूर्त्तात् परं ब्रह्मचारिणमाहूय गृहस्य द्वारगवाक्षादीन्युन्मोच्य स्वशिरसि व्यजनं कर्तुमादिदेश । स हि हस्ते जपमालामादाय वामपाइन शेते स्म । एतत् प्रतिभासते, यत् स ध्याने मग्नो जातः । मुहूर्त्तात् परं स पाश्र्वपरिवर्तनमकरोत् । तदापि स जपमाला हस्त एवासीत् । एकं सुदीर्घं निःश्वस्य स्थिरो जातः । कञ्चनाव्यक्तः शब्दोऽभवत् । हस्तश्च कम्पितो जातः । अन्येनैकेन सुदीर्घनिःश्वासत्यागेन सहैव तस्य शिर एकस्मिन्नव पार्श्वे अवसन्नं संदृत्तम् । “भ्रुवोर्मध्ये निबद्ध दृष्टिरास्ते स्म । मुखमण्डले स्वर्गीयमेव ज्योतिरदीप्यत । तदा रजन्या दशनिमेषाधिकं नवमवादनं जातम् । सकरुणः सेवको ब्रह्मचारी धावित्वा एतमेव संवाद विज्ञापयितुं निम्नतलं जगाम । तदानीमेव प्रसाद भोजनाय घण्टाध्वनिरुदतिष्ठत् | द्रुतमेव सर्वे तत्र समागच्छन् । नाड़ी न समुपलभ्यते । श्रीरामकृष्णदेवस्य नामकीर्त्तनं समारब्धम् । जाह्नव्यारतीरान्तरे चिकित्सकमायितु । जनः प्रेरितः। कलिकत्तानगर्यामपि गुरुभ्रातॄन् निकषा स एव संवादः प्रेरितो जातः । रजन्यां दशवादनात् परं चिकित्सकः समेत्य कृत्रिमैरुपायैश्चैतन्यं
- स्वामी सारदानन्दस्तु १९०२ ईसवीयस्य जुलाईमासीयचतुर्विंशतितमे
दिने सान्फ्रांसिस्को- वेदान्त-समितेः सभापति डाक्टर लोगनमेकेन पत्रेणैव व्यशा- पयत्, तेनावगम्यते - स्वामी जुलाईमासस्य चतुर्थेऽहनि शक्रवासरे रात्रौ दशनि- मेषाधिक-नवमवादनसमये भौतं देहं तत्याज (मायावती-अद्वैताश्रम- प्रकाशितायाः क्वामिनः आंग्लभाषानिबद्धायाः जीवन्याः चतुर्थसंस्करणस्य ७६८ पृष्ठ द्रष्टव्यम् ) ।