युगाचार्य-विवेकानन्दः समये स देवगृहं प्रविश्य द्वारगवाक्षादीन्यवरुध्य गृहमध्यादेवार्गलं निरुध्य ध्यानस्थोऽभवत् । एकादशवादनं यावत् गभीरध्यानमग्न आसीत् । एतावन्तमधिकं कालं ध्यानमग्नं तमालोक्य गुरुभ्रातरो विशेषतञ्चञ्चलमनसो जाताः । कञ्चित् श्यामासङ्गीतं गायन् समन्दिरा दवतीर्य्य चत्वरभूमावेव धीरमभ्रमत् । तदा तन्मध्ये एकमद्भुतं भावान्तरमजायत । स्वामी प्रेमानन्दः समीप एवासीत् । सोऽशृणोत् यत् स्वामी अव्यक्तस्वरमाह – “यद्यन्यः कोऽपि एको विवेकानन्दः अस्थास्यत् तदा स बोद्धमीशोऽभविष्यत् विवेकानन्दोऽयं किं कुर्वन्नन्त- हिंतो जातः” इति । आकर्ण्य तत् प्रेमानन्दो सविशेष विचलितो- ऽभवत् । किन्तु स्त्रामिनः गंभीरभावमालोक्य स किमपि न प्रष्ट साहसिको जातः । , शारीरिकीमस्वस्थतामवेक्ष्य स्वामिनः आहारस्य पृथक् सविशेष- व्यवस्था कृता आसीत् । किन्तु तस्मिन्नेव दिने स सर्वैः सह समुपविश्य सानन्दं भुङक्ते स्म । परन्तु अवदत्, “शरीरं मे सुष्ठु स्वस्थमेव वर्त्तते' इति । भोजनातू परं क्षणं विश्रम्यैव स एकवादनसमये ब्रह्मचारिणो व्याकरणमध्यापयितु प्रवृत्तः । धारावाहिकक्रमेण घण्टात्रयमध्यापयामास । २९९ स्वामिप्रेमानन्दमादाय अपराह बेलुडस्थितविपगिं यावत् परिभ्रमन् समागतः । अवदत् च, “शरीरमिदानीं मे स्वच्छन्दम् ।” वेद विद्यालय स्थापनसम्बन्धे अनेका आलोचना अभवन् । प्रेमानन्दस्तु अपृच्छत "वेदपाठेन कस्तावदुपकारो भवितेति ?” स्वामी प्रत्युवाच “अन्यः कोऽप्युपकारो यदि नैव भविष्यति, न भवतु, किन्तु एते खलु कुसंस्कारास्तु समपनीता एव भवितारः ।” सन्ध्यायाः प्राकू मठं प्रत्यावृत्य सर्वैः सह स्वामी कियत्क्षणं यावत् नानासंलापान् कृतवान् | सन्ध्याकालः, सप्तवादनं जातम् । आरार्तिकस्य घण्टानादः श्रूयते । स्वामी स्वस्यैव द्वितलस्थगृहमभ्येत्य
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०९
दिखावट