पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः २८६ श्रीश्रीश्यामापूजायाः परं स्वामिपादः स्वीयजनन्याः अभिप्राय- मनुसृत्य कालीघट्ट मातुः श्रीश्रीकालिकां द्रष्टुमेवागच्छत् | शैशवे । स्वामिनः कस्मिंश्चित् कठिनव्याधिसमये तस्या जननी कालीघट्ट मातरं श्रीश्रीकालिकां पूजयित्वा श्रीमन्दिरे पुत्रं लोटाङ्गगं कारयितुं मनसा प्रत्यजानात् । किन्तु प्राक् तत् नानुष्टिनमेवाभवत् । स्वामिशरोरं नितरा- मस्वस्थमालोक्य तस्या जननी पूर्वसंकल्पं स्मरन्ती पुत्रमादाय काली- घट्टमगच्छत् । स्वामी आदिगंगायां स्नात्वा सावत्र एव श्रीमन्दिरमभ्येत्य श्रीश्रीमातुः पूजादिकं समाचचार | देव्याः समोपे वारत्रयं लोटाङ्गणं कृत्वा सप्तकृत्वः मन्दिरं प्रदक्षिणीकृत्य समीपस्थनाट्यमन्दिरमेत्य हवनमकरोत् । स्वामी श्रीश्रीकालिकां पूजयितुं द्रष्टुञ्च समागत इत्येव- माकर्ण्य बहवो लोकाः मन्दिरे समवेता जाता: । वेलुडं प्रत्यावृत्यावदत् स्वामी - "इदानीमपि कालीघकोश- मुदारभावमपश्यम विलायतदेशात् प्रत्यागतं मां विदित्वापि मन्दिर- मध्ये गमनं न प्रतिविघ्नन्ति ते । परन्तु परम- समादरेण मां मन्दिरं नीत्वा पूजादिकं विधातुं सहायतामेवाकुर्वन् ।” मठं परितो भूमिं मृद्भिः पूरयितुं सन्थालवासिनो जनाः कर्म कुर्वन्ति । स्वामी तान् सर्वान् सन्थालनिवासिनो जनान् हृदयेना- स्निह्यत्, तैश्च सह स्वात्मजनानुरूपं मिलति स्म । तेषां सुखदुःखवार्त्ताम- शृणोच्च | एकदा तु तस्य स्वामि महोदयस्याभिलापो जातः एतान् सपरितोषं भोजयामीति । सन्थालदलपतिना कृष्णेन सह स एव भोजनप्रस्ताव उत्थापितो जातः । तदैव कृष्णोऽब्रवीत् “युष्माभिः स्पृष्टमन्नादिकमद्य वयं नाश्नीमः, यतो विवाहो जातः । युष्मत्स्पृष्टं लवणं यदि वयमश्नीमस्तदा जाति- ·च्युता भविष्यामः" इति । स्वामी प्रत्युवाच "लवणं कथं खादिष्यथ ?