पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ मुम्बईनगरात् स्वामी विवेकानन्दः सहसा (१६०० ई०) दिसम्बर मासस्य नवम-दिवसे रात्रौ बेलुडमठमुपातिष्ठत् । स्वामि-महोदयं समासाद्य मठवासिनां मनस्सु आनन्दाः स्थानं नालभन्त | मठे केवलं तदैव प्रसाद - (भोजन) संकेतरूपो घण्टानिनादो जातः । सोऽपि सर्वैः सह प्रसादं भक्षितुमेव समासोनः । अतो नानाप्रमोदसंलापेन सर्वा एव निशा व्यतीता जाताः । आनन्दस्रोतो मठे प्रवहति स्म । जीर्णदेहं भग्नञ्च स्वास्थ्यमादाय स स्वामिपादः प्रत्यावृत्तः । मठ- मागत्यैव स “कप्तान" -सेवियरस्य लोकान्तरगमनवार्त्तामाकर्ण्य सेवियर- रमणों दुर्वहादेतस्मात् शोकभारात् सान्त्वयितुं झटिति मायावतीं गन्तु- मुयुक्तोऽभवत् । तन्त्र्या एतामेव गमनवार्त्ता तत्र प्रेरयामास, स्वामिनं शिवानन्दं शिष्यञ्च सदानन्दं सङ्गिनं कृत्वा दिसम्बरमासस्य सप्तविंशतितमे दिवसे बहिर्गत्वा तत्रैव मासे ऊनत्रिंशत्तमे दिने काठगोदामस्थानमुपातिष्ठत् । तदानीं हिमालयप्रदेशे अतिमहान् प्राकृतिको दुर्योगः, प्रबला वात्या, अतिवृष्टिः, तुपारपातः, करकापातश्च समभवन् । स्वामि-पादस्तु तत्सर्वं विपत्पातं नैव गणयित्वा जनवरीमासस्य (१६०९) तृतीय दिवसे मायावती मुपाजगाम । तमेवाश्रममालोक्य स नितरामानन्दितोऽभवत् । सेवियरदम्पती वक्षः शोणितधारयेव श्रीश्रीस्वामि-पाद-परिकल्पित माश्रमं हिमालयप्रदेशे निर्मितवन्तौ । सेवियरस्य मृतदेहोऽपि तस्मादेवाश्रमादधो नातिदूरवर्त्तिनि स्थाने समदह्यत । स्वामिपादमासाद्य सेवियर-पत्नी कियतीं सान्त्वनामलभत । जुलाईमासस्य त्रयोदशदिने स्वरूपानन्दस्वामिनो जन्मतिथिरुयापिता