पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः वर्तन्ते सर्वमुपरिटादेवास्ति, परन्तु अन्तर्वर्तेते निर्विकारभाव आनन्दश्च ।*"* २७९ चतुर्भिर्मित्रैः साकं स्वामी २४ दिनेऽक्टोबरमासे पैरिसं मुक्त्वा क्रमेण वियना- हंगरी-सर्विया रुमानिया-बुलगेरिया- कन्स्टन्टिनोपल- देशान् गत्वा मिस्रदेशं समाययौ । त्रिचतुराणि दिनानि तत्र न्युष्य द्रष्टव्यस्थानान्यद्राक्षीत् । किन्तु पैरिस दर्शनानन्तरं यरोपस्य किमपि नगरं तस्मै नारोचत । किञ्च पाश्चात्त्यानां भोगलालसा तथा प्राधान्य- प्रतिष्ठार्थ परस्परस्पर्धा च तस्यान्तरं नितान्तमपीडयताम् । स भारतं परावर्तितुं व्याकुलोऽभवत् एवं सहचराननुमान्य प्रथमं यं प्लवमासादयत् तेन भारतं पराववृते । तस्यान्तरे असीमाह्वानं अश्रूयत ।... प्राच्य-प्रतीच्ययोर्मेलन- प्रचेष्टा, वेदान्तप्रभावेण 'धूमायमानज्वालामुखीमुखात् यूरोपस्य परि- त्राणेच्छा' - सर्वमपि मनस एकस्मिन् कोणे सन्नतमवातिष्ठत । स निर्वाणा- ह्वानस्योत्तरं प्रायच्छत् । छु भगिनीक्रिस्टिन्याः स्मृतिकथया ज्ञायते यत् स्वामी १८६६ ई० वत्सरे तामवोचत् – “आगामि आन्दोलनं यस्य नवयुगस्य सृष्टिं करिष्यति, तत् रूसदेशात् चीनदेशाद् वा आगमिष्यति ।... पृथिव्यामद्य तृतीयं युद्धं चलति । अस्मिन् युद्धे वैश्यानां प्राधान्यमस्ति । परन्तु चतुर्थे शूद्राणां (हापितसर्वस्वानां) प्राधान्यं भविष्यति ।”