पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवकानन्दः १६६३ ई० वर्षे सा स्वामिनः सम्बन्धे एकां विशेषसंख्यां (Special- Number ) प्रकाशितां कर्तुं वचनं ददौ । बहिर्भारत विभिन्नविश्वविद्यालय-प्रतिष्ठान-समिति-प्रभृतीनां सहयोगेन भारते स्वामिनः शिक्षायास्तथा भावादर्शस्य प्रचारोद्देश्येन व्याख्यान·आलोचना सभानां प्रबन्धः क्रियमाणोऽस्ति । २६५ बेलुडमठे श्रीरामकृष्णसंघस्य संन्यासिनां तथा ब्रह्मचारिणां एकं सम्मेलनमपि सम्पत्स्यते । सर्वधर्मसमन्वयस्य तथा पारस्परिक- शुभेच्छास्थापनस्योद्देश्येन वाराणस्यामपि तथाविधमेव सम्मेलनं भविष्यति ।” स्वामी रुग्णो भूत्वा कलिकत्तामाययौ । परन्तु तदीययोजनाः एकस्या उपर्येका इतिरूपेण कार्यान्विता अभवन् । कलिकत्तां परावृत्य १८६८ ई० वर्षस्य फरवरीमासस्य तृतीयदिवसे बेलुडे गङ्गायाः पश्चिमे तटे मठार्थं एकेन प्राचीनगृहेण साकं ७ एकड़ भूमि सः अक्रीणात् । नवीनायां भूमौ मन्दिराणां अन्यभवनानां च निर्माणमारब्धम् । प्रधान- तया स्वामिशिष्ययोः मिसमूलर-मिसेजउलीबुलयोः धनेनैव मठभूमि- ऋयणं भवनादिनिर्माणं सम्भवमभूत् । फरवरीमध्ये आलमबाजार- स्थानात् अपसृत्य अभिनवभूमेर्दक्षिणतः नीलाम्बरमुकर्जी-महोदय- स्योद्यानभवने मठः तात्कालिकरूपेण स्थानान्तरणमाप | मिसमूलर-मिसमार्गारेट-नोवेल ( निवेदिता ) मिसेज उलोबुल- मिस मैक्लाउड प्रभृति पाश्चात्यशिष्याः पुण्यभूमेर्भारतस्य शिक्षया एवं संस्कृत्या सह परिचिता भुत्वा श्रीरामकृष्णसंघस्य कार्ये सहायतां दातु भारतं आयाता आसन् । ते जनाः नवेन परिवेशेन सह स्वात्मानं मेलयित्वा नवक्रीतभूमेरेकांशे स्थिते प्राचीनभवन एवावस्थातुमारभन्त । शिक्षादीक्षाभ्यां पाश्चात्त्य शिष्याणां सेवार्थ भारतोपयोगिरूपेण संघटनं