पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः न सम्पत्स्यते । · वयं यन्नाम्ना संन्यासिनः स्मः, यूयं यं जीवनादर्श मत्वा गृहस्थाश्रमे निवसथ, देहावसानात् द्वादशवत्सरांतः प्राच्येषु तथा प्रतीच्येषु च देशेषु यस्य पवित्रनाम्नः एवमलौकिक जीवनस्य असम्भावनीयो विस्तार : समभूत् एष संघः अथवा प्रतिष्ठानं तस्यैव श्रीरामकृष्णस्य नास्ता प्रतिष्ठितं भवेत् । वयं प्रभोर्दासाः स्मः | यूय मस्मिन् कार्ये सहायका भवत !" २५५ सर्वसम्मत्या स्वामिनः प्रस्ताव पारितोऽभूत् तथा भविष्यत्- कार्यप्रणाली विधि-विधानानां विशदालोचनानंतरं प्रतिष्ठानस्य उद्दे- श्यानि तथा कर्मप्रणाली च अनेन प्रकारेण निर्धारिता अभूवन् '- एष संघ: 'रामकृष्ण मिशन' नाम्ना परिचितः स्यात् । २ – अस्योद्देश्यानि रामकृष्णदेव: मनुष्यजातेः कल्याणार्थं निज- जीवने यस्य सत्यस्य प्रचारं तथा अनुष्ठानमातनोत् तस्य प्रचार करणं एवं सर्वसाधारणस्य ऐहलौलिकपारलौकिककल्याणस्य कृते तेषां तत्त्वानां कार्यरूपेण परिणमने सर्वेषां सहायतादानम् । ३ – संघस्योद्देश्यं तथाऽऽदर्श: जनतायाः सेवा, तथा आत्मिकं कल्याणसाधनम् । राजनीत्या साकमस्य संघस्य कोऽपि सम्पर्को न वर्तते । अनेनैव क्रमेण विविधा कार्यपद्धतिः तथा नियमाः संघटिता बभूवुः । सर्वसम्मत्या स्वामी विवेकानन्दः साधारणसभापतिः निर्वा चितः । स्वामित्रह्मानंदयोगानंदौ कलिकत्ताकेन्द्रस्य सभापत्युपसभा- पती अभूताम् । अनेनैव प्रकारेण तस्मिन् दिने स 'रामकृष्ण मिशन' संस्थाप्य संघ 'बहुजनहिताय' सक्रियं व्यधात् । स्वामी विवेकानन्दः जातिवर्णभेदं अविधाय मानवजातेः कल्या- णार्थ रामकृष्ण मठ - मिशनरूपं यद् संयुग्मं संघटयामास, तस्मिन् मानवसेवायाः प्राधान्यं यद्यपि सुस्पष्टमासीत तथाऽप्यस्य आदर्श: तथा कर्मधाराश्च भारतस्य एवं बाह्यदेशानाञ्च अनेकजनसेवाप्रतिष्ठा